2025-01-21 07:35:48 by ambuda-bot
This page has not been fully proofread.
सरः ]
द्रव्यसाधनम्
43
तत्वमुक्ताकलापः
न्यत् । ' * एकस्मिन् दूरतादेरविशदविशदप्रत्यभि-
ज्ञादि तद्वत्
सर्वार्थसिद्धिः
बुद्धयन्तराणि च तद्वाधकानि ' अभिनेन्द्रियजन्यान्याह-
एकस्मिन् इति — आसन्नदेशे दृष्ट्वा दूरं गतस्य अविशदा प्रत्य-
भिज्ञा । दूरे दृष्टा समीपं गतस्य तु विशदा । एवं
क्रमाद्बहलविरलालोकादिवशादप्युभयथा ग्राह्या । अल्पधर्मवि-
शिष्टतया ग्रहणं अविशदग्रहणं । भूयोधर्मविशिष्टतया तु
आनन्ददायिनी
॥
बुद्ध्यन्तराणीति——यद्यपि दृष्टमेव स्पृशामीति पूर्वोक्तापि प्रत्यभिज्ञा एके-
न्द्रियजन्यैव चक्षुर्मात्रजन्यत्वात् ; तथाऽपि सा इन्द्रियद्वयसापेक्षेति भावः ।
अभिन्नेन्द्रियजन्यानि - भिन्नेन्द्रियानपेक्षाणि ॥ ननु विशदाविशदज्ञानं
कथं धर्मिसाधकमित्यत्राह – अल्पधर्मविशिष्टतयेति तथाच एकस्यैव
वस्तुनो भूयोऽल्पधर्मविशिष्टतया ग्रहणमेव प्रतीतेर्विशदाविशदत्वमिति
1
भावप्रकाशः
* अभिन्नेन्द्रियजन्यानीति—— पूर्वज्ञानजनकेन्द्रियाभिन्नेन्द्रियज-
न्यानीत्यर्थः । एतावता पूर्वज्ञानजनकेन्द्रियजन्यं ज्ञानं धर्मभिन्नध -
र्मिसाधने प्रमाणमिति सिद्धं । अथ ' यस्यार्थस्य सन्निधानासन्नि
धानाभ्यां ज्ञानप्रतिभासभेदः तत् स्वलक्षणं तदेव परमार्थसत्
अर्थक्रियासामर्थ्यलक्षणत्वाद्वस्तुनः इति धर्मकीर्तिना न्यायबिन्दा
स्वलक्षणविषये यदुक्तं तदेव धर्मिभिन्नधर्मपारमार्थ्यानङ्गीकारे न घटते
इत्याह — मूले * एकस्मिन् दूरतादोरित्यादि ।
'