This page has not been fully proofread.

42
 
सव्याख्यसवार्थसिद्धिसाहिततत्वमुक्ताकलापे
 
सर्वार्थसिद्धिः
 
इति । तदिह प्रतिसन्धेयं ।
 
2
 
आनन्ददायिनी
 
[ जडद्रव्य
 
भ्रान्तयः । सर्वेषामपि स्वाज्ञाताकारस्य पदार्थेषु संभवात् । यदा-
तु काष्ठां प्राप्नोति तदा तस्मिन् पदार्थे तेनाज्ञाताकाराभावात् आका-
राज्ञानहेतुकभ्रमासंभवः इति । तत्र पदार्थाभ्यासो हि बुद्धयत्क
र्षहेतुर्भवति । अभ्यासन जायमानोत्कर्षपरम्परा काष्ठां गच्छन्ती
दृष्टा । यथा पुटपाकोत्कर्षेण जायमाना स्वर्णोत्कर्षपरम्परा दशवर्णे ।
पदार्थाभ्यासोऽभ्यासत्वात्काष्ठा । प्तिहेतुः इति । ननु लङ्घनाभ्यासेऽप्य-
भ्यासत्वं वर्तते ; न स काष्ठाप्राप्तिहेतुर्भवतीति, मैवं ; तत्रोत्कर्षं जनयन्
लङ्घनाभ्यासः पूर्वपूर्वप्रयत्नाधिकप्रयत्नापेक्ष एवोत्कर्षं जनयति । तथाच
त्रैलोक्यलङ्घनहेतुभूतप्रयत्नस्यासंभवात्तत्रोत्कर्षकाष्ठाप्राप्तिर्नास्ति । अयं चा-
भ्यासोऽधिकप्रयत्नापेक्ष एवोत्कर्षहेतुः पुटपाकाभ्यासवत् । तस्मादुत्कर्ष-
काष्ठाप्राप्तिहेतुर्भवतीति। एतदेवाभिप्रेत्योक्तं - अयत्नवत्त्वेऽपि बुद्धेः इति।
पूर्वप्रयत्नाधिकप्रयत्नसापेक्षेणाभ्यासेन जायमानतया उत्कर्षकाष्ठां प्राप्तायाः
अत एव यथार्थविषयाया बुद्धेः तत्पक्षपाततो बाधकत्वमुपपद्यते इति ।
अस्मिन् पक्षद्वयेऽपि धर्मिस्वरूपस्य धर्मस्य चाङ्गीकाराद्विरोध इति
भावः । अत्र बुद्धेस्सत्पक्षपाततः तत्पक्षपातत इति पाठद्वयं बोध्यं ।
केचिदेवं व्याचख्युः – निष्कलङ्क प्रत्यक्षसिद्धस्य युक्तिभिर्न बाध इति
त्वयाङ्गीकारात् तन्नयायो धर्मविशिष्टधर्मिण्यप्यस्त्वित्यत्राह - यत्तदन्यत्रेति ।
उपप्लवो-बाधः । प्रत्यक्षबाधाभावादनुपप्लवभूतः स चासावर्थश्च तथोक्तः ।
स्वभावः---स्वरूपं । विपर्ययैः - यौक्तिकबाधैः प्रत्यक्षबुद्धेरबाधितार्थवि-
षयकत्वस्यौत्सर्गिकत्वादित्यर्थ इति । तदिति - एकस्मिन् धर्मिणि भ्रान्त्य-
भ्रान्त्यनुगत प्रामाणिकधर्माङ्गीकारेण ह्ययं बाध्यबाधकभावसमर्थनार्थो वा
काष्ठाप्राप्तिसमर्थनार्थो वा ग्रन्थ आरब्ध इति न विस्मर्तव्यमित्यर्थः ।