2025-01-21 07:35:47 by ambuda-bot
This page has not been fully proofread.
सरः]
द्रव्यसाधनम्
सर्वार्थसिद्धिः
अनुपप्लवभूतार्थस्वभावस्य विपर्ययैः ।
न बाधो यत्नवत्वेऽपि बुद्धेस्स (स्त) त्पक्षपाततः ॥
आनन्ददायिनी
41
TRE
कव्यापारं कुर्वाणो हि लोके बाधक इत्युच्यते : नहि सत्यस्य
शुक्तयादेर्मिथ्यारजतत्वादिकं प्रति व्यापारोऽस्ति j अव्याप्रियमाणस्यापि
बाधकत्वेऽतिप्रसङ्गो विपरिवर्तश्च स्यात् । तस्मात्कथं बाध्यबाधकभाव-
व्यवस्थेति? उच्यते—–अनुपप्लवेति——–उपप्लवभूतोऽर्थस्वभावो रजतत्वं ;
अनुपप्लवभूतोऽर्थस्वभावोऽनारोपितश्शुक्तित्वादिः । तस्य विपर्ययैः-
उपप्लवभूतैः रजतत्वादिभिः न बाधः ; किंत्वयत्नवत्त्वेऽपि — बाध्यरज-
तत्वविषयव्यापाररहितत्वेऽपि शुक्तित्वादिरेव बाधः ; कुतः ? बुद्धेस्स-
त्पक्षपाततः --- भूतार्थपक्षपातित्वात् । अयं भावः भूतार्थपक्षपा-
तो हि बुद्धनां स्वभावः । तावदेवेयमनवस्थिता ; तावदेवेयं भ्रान्तिः ।
यावत्तत्वं न प्रतिलभते ; तत्प्रतिलाभे तु तत्र स्थितपदा सती
अप्रामाणिकं रजतत्वं न संस्पृशेत्; बुद्धेस्ततो निवृत्तिरेव तद्विषय-
व्यापारमकुर्वतोऽपि बाधकत्वं नाम । यथा हि वेश्यया परिगृह्य-
माणः कुरूपो दरिद्रो वा तद्विषयव्यापारमकुर्वताऽपि सुरूपेणाढ्येन
वा बाध्यते ; बाधकत्वं चाढ्यस्य सुरूपस्य दरिद्रात्कुरूपाद्वा वेश्या-
या निवृत्तिरेव तथैतदपीति । अन्ये तु — सर्वेपि पुरुषास्सर्वेष्वपि
पदार्थेषु संभावितभ्रान्तयः आहोस्वित् कस्मिंश्चित्पदार्थे कश्चिदसं
भावितभ्रान्तिरपि भवतीति तदर्थं विचारितं; कस्मिश्चित्पदार्थ
कांश्चिदाकारान् कश्चिद्गृह्णाति । अपरस्तु ततोऽप्यधिकान् । ततोऽ-
न्यस्ततोऽप्यधिकान् । तत्र पूर्वस्या बुद्धेरुत्तरोत्तरमुत्कृष्यते । इयं
चोत्कर्षपरम्परा कस्मिंश्चित्पुरुषे समाप्यते आहोस्विदप्रतिष्ठां गच्छ-
तीति ? यदा तु काष्ठां न प्राप्नोति तदा सर्वेऽपि संभावित-
?
;.