2025-01-21 07:35:47 by ambuda-bot
This page has not been fully proofread.
10
40
सव्याख्यसर्वाथीसद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
[जडद्रव्य
इति वदद्भिः । अतः सहोपलम्भनियमाद्धर्मधर्मिभेद एव सिध्यति ।
किंच रूपस्पर्शयोः सहधीनियमस्त्वयाऽपि दुस्साधः । अतस्तयो-
रयुगपदुपलम्भादभेदासिद्धावेकस्य * प्रत्यभिज्ञाविषयस्य त-
तोऽन्यत्वं प्रस्पष्टं । यत्तदन्यत्र युष्माभिरुक्तम्-
1
आनन्ददायिनी
भेदघाटितत्वात्तन्नियमहेतुर्विरुद्ध इत्याह- अत इति । किंच सहोप-
लम्भनियमेन धर्मधर्मिभेद निरसनेऽपि रूपस्पर्शयोस्तन्नियामकाभावाद-
सिद्धेः दृष्टमेव स्पृशामीति प्रत्यभिज्ञानुपपादनादेतावान् प्रयासो व्यर्थ -
इत्याह-किंचेति । भवद्भिरेवानुगतो धर्मी बुद्धेर्बाध्यबाधकभावनिरूपण-
स्थले बुद्धितत्वमालायामुक्तः ; स इदानीं त्यज्यत इति पूर्वापरविरोध-
श्चेत्याह यत्तदन्यत्रेति अनुपप्लवेति — इदमित्थं सिद्धिटीकायां व्याख्यातं-
शुक्तिकारजतयोर्बाध्यबाधकभावः कथं नियम्यते ? नहि विरोधेन; वैप-
रीत्यस्यापि प्रसङ्गात् । नच निषेधात्मकतया ; विधेरपि क्वचिद्वाधक-
त्वात् निषेधस्यापि बाध्यत्वात् । न च प्रामाणिकत्वाप्रामाणिकत्वाभ्यां ;
प्रामाणिकस्यापि दुर्बलस्य शत्रोर्बाध्यत्वात् । किंच बाधार्थं बाध्यविषय-
भावप्रकाशः
गुणेभ्योऽर्थान्तरभूतद्रव्यानुपलम्भेन गुणगुणिवादो निरस्तः । प्रयोगः-
यदुपलब्धिलक्षणप्राप्तं सत् यत्र नोपलभ्यते तत्तत्र नास्ति ; यथा क्वचि-
त्प्रदेशविशेषे घटादिरुपलभ्यमानः । नोपलभ्यते च गुणेभ्योऽर्थान्तरभूत-
स्तत्रैव देशे गुणी' इति स्वभावानुपलब्धिः प्रतिषेधहेतुरुक्तः; स एव
नोपलभ्यते च ज्ञानादर्थान्तरभूतस्तत्रैव देशेऽर्थ इति विधया वैभाषिकाभ्यु-
पगतस्य ज्ञानादर्थान्तरभूतस्यार्थस्य प्रतिषेधहेतुः प्रसजेत् इति ॥ ' * प्रत्य-
भिज्ञाविषयस्येत्यादि - एतेनोदाहृतस्वभावानुपलब्धिहेतोरसिद्धिर्दर्शिता ।