2025-01-21 07:35:18 by ambuda-bot
This page has not been fully proofread.
ix
पूर्वोक्तं कृतकोटितत्संग्रहरूपं प्रबन्धयुगळं बोधायनोपवर्षमुनिद्वयकर्तृ-
कतया श्रीमद्रामानुजाचार्येभ्योपि प्राचीने प्रपञ्चहृदय नाम्नि प्रधन्धे
लक्षग्रन्थात्मकतया तत्संग्रहतया च निर्दिश्यते । अथापि तत्व-
टीकायां (द्वि. सं. ५४ पृ.) ' बोधायनटङ्कद्र मडादिमहत्तरपरिग्रहप्राचुर्यं
दर्शयति' इति ; स्थलान्तरे च उपवर्षं प्रस्तुत्य 'अस्यैव बोधायन इति
नाम स्यात्' इति चोक्तम् ; सेश्वरमीमांसायां च यत्तत्क्तमुपवर्षवृत्तौ इत्या-
दिना तन्मतमनूद्य निरस्तमपि इत्येवं एकत्र बोधायनोपवर्षयोरभेदं परत्र
च उपवर्षस्यान्यत्वं च गमयता निगमान्तगुरुणा बोधायनोपवर्षयोर्विषये
कोऽपि संशय उद्भाव्यत इति प्रतिभायात्; तत्रेत्थं निगमान्त गुरोराशय-
माकल्यामः ; वैजयन्तानाम्नि हि कोशे ---
हलभूतिस्तूपवर्षः कृतको टिमुनिस्तथा ॥
इति पर्यायनिर्देशः क्रियते । तत्र चोपवर्ष एव कृतकोटिमुनिरिति
निर्दिश्यते । इत्थं च कृतकोटिमुनिरिति बोधायनावगतिर्निरुध्येत ।
प्रसिद्धा च वोधायनस्य कृतकोटिग्रन्थप्रणेतृता ; अतः उपवर्ष एव
बोधायन इत्यभ्युपगमयत्युपवर्षस्य कृत कोटिकर्तृतोक्तिरित्यवगमयितुं तत्व
टीकायामचार्येण 'अस्यैव बोधायन इति नाम स्यादिति सूक्तिः प्रव-
र्तित स्यात् ' । सेश्वरमीमांसायां च उपवर्षग्रन्थानुवादखंडने परं कृतको -
टिग्रन्थसंग्रहकर्तारमुपवर्षं विषयीकृत्याप्युपपद्येते इति ॥
यद्यपि चार्षेषु ग्रन्थेषु बंहीयसी विलुप्तिरवगम्यते इत्याकलय्याना-
कलय्य वा व्याससूत्रवृत्तिरूपोऽप्यार्षो निबन्ध आसीदिति विशिष्टा-
द्वैतिनां श्रीभाष्ये एव परमवगच्छामो नान्यत्र क्वापीति पराक्रमकलुषाशयाः
प्रायः प्रपञ्चहृदयग्रन्थावलोकनेनोपशाम्येयुरपि ; श्रीमच्छङ्कराचार्यप्रब-
न्धेषु परं नामग्राहं बोधायनमताप्रदर्शनेन विश्वासदार्व्यमनासादयन्त
स्संशयीरन्नपि ; तथाऽपि --- व्याडि, विन्ध्यवासि, भवदास, कुणरवाडव,
;