2025-01-21 07:35:46 by ambuda-bot
This page has not been fully proofread.
सरः]
द्रव्यसाधनम्
सर्वार्थसिद्धिः
39
नचात्रान्यश्शङ्खस्तदानीमुत्पन्नः; नापि शङ्खरूपोऽयं पित्तविवर्तः ;
स्पर्शनेन स एवायं शङ्क इति गृहीतेः । एवं स्पर्शादावपि ।
यदि चासौ हेतुरङ्गीक्रियते ; * किमपराद्धम् -
सहोपलम्भनियमादभेदो नीलतद्धियोः ॥
आनन्ददायिनी
यरूपस्यान्यत्रारोपस्थल इत्यर्थः । ननु पीतशङ्खादिभ्रमे पीतिमगुणविशिष्ट
एवान्यश्शङ्खस्तदानमुित्पद्यते ; क्षणिकत्वाङ्गीकारेण पूर्वशङ्खस्य नाशात् ।
यद्वा-— पित्त (पीत) द्रव्यस्यैवायं शङ्खाभासरूपेण परिणामः । तथाच
सिद्ध एव सहोपलम्भनियमः तत्राह---नचेति । तत्र हेतुमाह-
स्पर्शनेनेति---न क्षणिकत्वेन शङ्खान्तरोत्पादनं युक्तं ; स एवायमिति
प्रत्यभिज्ञानुपपत्तेः नापि पित्तविवर्तः ; त्वागन्द्रियविषयत्वानुपपत्तेरित्यर्थः ।
एवमिति — जले औष्ण्यभ्रमकाले तदीयशैत्यानुपलम्भात् उष्णस्पर्शस्या-
श्रयं विनोपलम्भाच्चेत्यर्थः । आदिशब्देन रसादयो गृह्यन्ते । सहो-
पलम्भनियमस्य व्याप्तिग्रहस्थानाभावान्न साधकत्वं तथाऽपि साधकत्वे
योगाचारमतप्रसङ्ग इत्याह – यदि चासाविति । प्रत्युत सहभावस्य
भावप्रकाशः
स्फुटमेतत् । किंच एकशब्दानुविद्धप्रत्ययो यदि साधकत्वेन संमतः;
तदा नैयायिकाभिमताया जातेरङ्गीकारापत्तिः इत्यादिकमन्यत्र स्पष्टम् ॥
तत्वसंग्रहे— लोहितः स्फटिकः इति ज्ञानविचारे (५६६ ) -
शुक्लादयस्तथा वेद्या इत्येवं चापि संभवेत् ।
तस्माद्भ्रान्तमिदं ज्ञानं कम्बुपीतादिबुद्धिवत् ॥
इत्युक्तदिशा पीतशङ्ख इति भ्रमे शुक्लरूपमेव विषय इत्यङ्गीकारेऽप्याह-
1
* किमपराद्धमित्यादि-अयमाशयः - तत्व संग्रहटीकायां ' तदत्र