This page has not been fully proofread.

38
 
2
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
सर्वार्थसिद्धिः
 
*
 
[जडद्रव्य
 
नहि रूपमिदमिति पटादीन् कश्चित् क्वचित्प्रत्यति । किं तु
तद्वदिति । सहोपलम्भनियमादि हेतुचतुष्टयं च निरसि
प्यामहे । * नच रूपादेर्धर्मिणश्च सहोपलम्भनियमः ; पीत-
शङ्खादिभ्रमे रूपमन्तरेण रूपिणः तमन्तरेण तस्य चोपलब्धेः ।
आनन्ददायिनी
 
यति -नहीति । ननु वैपरीत्यप्रसङ्गो नोपपद्यते सहोपलम्भ-
नियम मत्वर्थीयप्रत्ययनिरपेक्षसामानाधिकरण्यैकशब्दानुविद्धप्रत्यय प्रथ-
मपिण्डग्रहणकालिकाभेदग्रहणरूपाभेदोपलम्भहेतु चतुष्टयस्य सत्त्वादित्य-
त्राह——सहोपलम्भनियमादीति । निरसिष्यामह इति । भेदाभेद-
निरसनावसरे इत्यर्थः । असिद्धश्चायं प्रथमो हेतुरित्याह-
नचेति ।
रूपमन्तरेणेति—स्वकीयरूपमन्तरेणेत्यर्थः । धर्मिज्ञान-
स्याप्यारोप हेतुत्वादिति भावः । तमन्तरेणेति —— शङ्खमन्तरेण तद-
 
1
 
भावप्रकाशः
 
2
 
* हेतुचतुष्टयमित्यादि-बुद्धिसरे (२०) अभेदसाधकत्वं सहो -
पलम्भनियमस्य ; तत्रैव (३२) अभेदावगाहित्वं निर्विकल्पकप्रत्ययस्य ;
तत्रैव (९४) धर्मधर्म्यभेदसाधकत्वं मत्वर्थीयप्रत्ययनिरपेक्षसामाना-
धिकरण्यस्य निरसिष्यते इति विवेकः । * नच रूपादेरित्यादि-
अत्र न्यायसिद्धाञ्जने (११) ' नचसहोपलम्भनियमान्नीलतदाधारादेरभेदः
एकसामग्रीवेद्यत्वनियमात्तदुपपत्तेः । सहत्वतन्नियमाभ्यां भेदस्यैव स्थिरी-
करणेन व्याघातात् । समस्य च सहोपलम्भनियमस्य शङ्खश्वैत्यादाव-
सिद्धेः । असमस्यापि गन्धादौ । भास्वराध्वान्ताभास्वररूपाभ्यामनेकान्त-
त्वाच्च' इत्यन्ता सूक्तिरपि भाव्या । निर्विकल्पके शब्दानुवेधस्य बौद्धैरन-
ङ्गीकारात् विकल्पस्य विपर्ययत्वेन च न ततोऽभेदसिद्धिरिति सर्वेषां