2025-01-21 07:35:46 by ambuda-bot
This page has not been fully proofread.
सरः]
द्रव्यसाधनम्
सर्वार्थसिद्धिः
37
एकस्यानेकस्वभावत्वायोगात् । तदभ्युपगमे जैनमतावतारात् ।
अनेकधर्मत्वे त्वस्मन्मतसिद्धेः । एकस्मिन्नेव रूपादिस्वभाव-
भेदकल्पनेति चेन्न ; सर्वत्रासिद्धस्य कल्पनायोगात् । क्वचि -
त्सिद्धौ द्रव्यवादसिद्धेश्च । एतेन भेदोपलम्भाभावादभेदसि-
द्धिरिति प्रत्युक्तं । विपरिवर्तस्यैव सुवचत्वात् ।
आनन्ददायिनी
यान्वयव्यवस्थासंभवात् । अतो द्वित्रिचतुरित्यत्र न समासान्तप्रसङ्गः ।
तदुक्तं तत्वमात्रपञ्चिकायां--
वाय्वादिव्यवहरो भवति स्पर्शादिलक्षणैरेव ।
द्वित्रिस्वभावभाग्भिः एकस्माद्धस्वतादीव ॥
इति । अत्र मते धर्माणामेव तथाव्यवहारसाधनत्वं ; धर्म्येवेति पक्षे तु
न वस्तुनानास्वभावत्वं ; किन्तु ग्राहकभेदेन तथा व्यवहार इति भेदः ॥
स्वभावभेदा इत्यत्र स्वश्चासौ भावश्चेति स्वभावः स्वरूप-
मित्यर्थः ; उताहो स्वस्य भावः स्वभावः इति षष्ठीसमासः इति विकल्पं
मनसि निधाय प्रथमं दूषयति — एकस्येति । चतुष्ट्वे हि वस्तुस्वभा-
वानां परस्पराभेदे चतुष्ट्वव्याघातः भेदेऽत्वकत्वव्याघात इति भावः ।
द्वितीयं दूषयति- अनेकेति । अगत्या धर्मिपक्षमवलम्बते—एकस्मिन्ने-
वेति । सर्वत्रासिद्धस्येति – क्वचित्सिद्धस्यैवारोपादिति भावः । ननु
प्रत्येकं सिद्धानामेकस्मिन्नारोपे को विरोध इति चेत्; न; एकैकात्मक-
त्वेन सिद्धानां भेदाद्विरोधग्रहेणारोपासंभवादविरोधार्थं क्वचित्समावेशे वक्तव्ये
तदसिद्धिरिति भावः। ननु रूपरूपिणोः भेदग्राहकप्रमाणाभावादभेदसिद्धौ
रूपादीनामाश्रयासिद्धिरित्यत आह-- एतेनेति - प्रत्यभिज्ञानुपपत्तिरूपस्य
पूर्वोक्तसाधकस्य सत्त्वेनेत्यर्थः । दूषणान्तरमाह — विपरिवर्तस्येति ।
अभेदानुपलम्भेन भेदस्यैव सिद्धेरित्यर्थः । अभेदानुपलम्भमेव दर्श-
--