This page has not been fully proofread.

36
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
सर्वार्थसिद्धिः
 
[ जडद्रव्य
 
ननु निर्विषयैवेयं प्रत्यभिज्ञा वासनावशात्स्यादिति चेन्न;
योगाचारनीत्या रूपादेरपि निह्नवप्रसङ्गात् । बाधावाधाभ्यां
विशेष इति चेन्न ; स्वारासकवाधादृष्टेः * यौक्तिकवाधस्य
समत्वाच्च । अतो रूपस्पर्शवदिदमिति मिथो भिन्नविशेषणकं
विशेष्यं सर्वलोकसिद्धं दुरपह्नवं । यतु मतान्तरं — स्पर्शमात्र -
स्वरूपो वायुस्वलक्षणः । तैजसादयस्तु द्वित्रिचतुस्स्वभावाः ।
अतस्तेजःप्रभृतीनां द्वीन्द्रियग्राह्यत्वमिति ; तदप्यसत् ।
आनन्ददायिनी.
 
प्रत्यभिज्ञाया निर्विषयत्वे प्रत्ययमात्रस्याविशेषान्निर्विषयत्वप्रसङ्गेन रूपादि-
स्वलक्षणस्याप्यपह्नवस्स्यादित्याह ——— योगाचारनीत्येति । समत्वादिति-
ग्राह्यग्राहकभावानुपपत्त्यादिबाधकस्य तेनापि प्रतिपादनादिति भावः ।
संघातादेरयोगादित्यत्रादिशब्दसंगृहीतं मतान्तरं शङ्कते - यत्तु मतान्तर-
मिति । द्वित्रिचतुस्स्वभावा इति द्वन्द्वगर्भो बहुव्रीहिः । न च सर्वत्र
सर्वान्वयः ; देवदत्तयज्ञदत्तविष्णुमित्रा ः रक्तशुक्लकृष्णाः इतिवद्योग्यत-
 
भावप्रकाशः
 
रहेण वृक्षशिंशपयोरिव तादात्म्यविरहेण स्वभावासंभवाच्चाविनाभावग्रहा-
संभव इति भावः ।
 
1
 
* निर्विषयैवेत्यादि—विषयाजन्येत्यर्थः । एवं च इदं रजत-
मित्यादेरिव अर्थजन्यत्वरूपप्रमात्वविरहेणास्य साधकत्वं न संभव-
तीति भावः । रूपादिप्रत्ययस्यापि योगाचारनीत्या निर्विषयत्वं प्रस-
ञ्जयति – 2 * यौक्तिकबाधस्य समत्वादिति – धर्मधर्मिणोस्सम्बन्धानुप-
पत्त्यादिवत् ज्ञानार्थयोस्सम्बन्धानुपपत्त्यादिबाधकस्य सत्त्वादित्यर्थः ॥