This page has not been fully proofread.

सरः ]
 
द्रव्यसाधनम्
 
सर्वार्थसिद्धिः
 
35
 
एकपादानत्वे तु तदेव द्रव्यं । पृथिव्यादिदेशैक्यात्संघातत्व
तु तत्संघातस्यापि संघातान्तरापेक्षायां अनवस्था अन्योन्याश्र-
यो वा । अथ स्यात् गृहीतेन रूपेण पूर्वमेव स्पर्शोऽनुमितः
तत्र दृष्टरूपानुमितमेव स्पृशामीत्येव प्रतिसन्धानमिति चेन्न
द्वयोरेकाश्रयत्वग्रहणमन्तरेण '* व्याप्तिग्रहणासंभवेनानुमानासिद्धेः,
दृष्टे रूपे स्पृष्टे च स्पर्शे भेदाग्रहात् दृष्टमेव स्पृशामीति बुद्धिश-
ब्दाविति चेन्न; भेदेनैव तयोर्गृह्यमाणत्वात् रसादिष्वपि प्रसङ्गाच्च ।
 
आनन्ददायिनी
 
त्तरोत्तररूपस्पर्शयोरिति भावः । तत्संघातस्येति ——भवत्पक्षे तस्यापि
(रूपादि) क्षणत्वेन नानात्वात् तदैक्यं च संघातत्वेन वक्तव्यं
तस्यापि संघातरूपत्वेन संघातरूपदेशापेक्षायां अनवस्था । तथाच -
पृथिव्याद्येकदेशसंघातप्रयोजको दुर्लभ इति भावः । अन्योन्येति-
पृथिवीशब्दवाच्यरूपरससंघातस्य एतत्संघातावच्छेदेन संघातत्वाङ्गीकारे
इति भावः । ननु गन्धानुमिते द्रव्ये घ्रातमेव पश्यामीतिवद्दष्टरूपानुमित-
स्पर्शे दृष्टमेव स्पृशामीति प्रत्यभिज्ञेत्याशङ्कय उभयाश्रयस्यैकस्य त्वयाऽन-
ङ्गीकारेण साहचर्यगर्भव्याप्तिग्रहा संभवान्नानुमानप्रवृत्तिरिति परिहरति----
अथेति । भेदग्रहेऽपि भ्रमरूपप्रत्यभिज्ञाङ्गीकारे बाधकमाह - रसादिष्वपीति ।
 
1
 
भावप्रकाशः
 
* व्याप्तिग्रहणासंभवेनेति-
 
-
 
कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् ।
अविनाभावानियमः .
 
11
 
इति वदतां भवतां मतेऽपि रूपरसयोर्धूमानयोरिव कार्यकारणभावविर-
 
3*