2025-01-21 07:35:45 by ambuda-bot
This page has not been fully proofread.
34
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
[जडद्रव्य
अन्यथा रसादिष्वपि संहतेषु तत्प्रसङ्गात् । एतेन देशैक्यमेव
संघात इत्यपास्तं ; एकदेशान्वयिनां त्रैकालिकानामेकसंघातप्रस-
ङ्गात् । देशोऽपि तदातदा भिन्न एवेति चेन्न ; क्षणभङ्गस्य निरसि-
ष्यमाणत्वात् । न च ते देश आकाशादिरूपः ; तस्य युष्माभि-
रावरणाभावमात्रत्वज्ञापनात् । नचेोपादानरूपः; स्पर्शरूपादी-
नां भिन्नभिन्नक्षणोपादानत्वाभ्युपगमात् ।
आनन्ददायिनी
प्रसङ्ग इति भावः । नैरन्तर्यमात्रेणेन्द्रियान्तरग्राह्यत्वाङ्गीकारे बाधक-
माह - अन्यथेति-अविशेषादिति भावः । ननु दृष्टमेव जिघ्रामि मधुर-
मेव पश्यामि इति प्रत्यभिज्ञानदर्शनादिष्टापत्तिरिति चेन्न, रसादीनामपि
चक्षुरादिग्राह्यत्वे दर्शनमात्रेण रसादिग्रहणात् संशयाभावप्रसङ्गेन प्रत्यभि-
ज्ञायास्तदनुमितधर्मिविषयत्वात् । ननु वनादौ देशैक्यस्य संघातत्वदर्श-
नादत्रापि तथास्त्वित्याशङ्कय निराकरोति - एतेनेति -- देशस्यापि रूपा -
दिस्वलक्षणमात्रत्वे द्वीन्द्रियग्राह्यत्वाभावात् प्रत्यभिज्ञानुपपत्तिः । रूपादे-
राश्रयतयाऽभ्युपगतस्य एकस्य वस्तुनः संघातत्वे द्वीन्द्रियग्राह्यत्वे च
तस्यैव द्रव्यत्वापत्तिः सधर्मकत्वापत्तिरित्यादिनेत्यर्थः । एतेनेत्यस्य रसा-
दिष्वपि प्रसङ्गेनेत्यर्थमप्याहुः ॥ दूषणान्तरमप्याह- एकदेशान्वयिनामिति-
अतिप्रसङ्गपरिहारं शङ्कते । देशोऽपीति — अभिन्न देशकालं स्वलक्षणं
संघात इति भावः । तस्य युष्माभिरिति - ' आकाशे हि पदार्थानाम-
वस्थानं आकाश एव ह्यवकाशः स चावरणाभावः ' इति भावत्क-
वचनात् । तस्य शून्यतया रूपाद्यनाधारस्य संघातव्यवहारनिमित्तत्वा-
भावादिति भावः । भिन्नभिन्नक्षणेति – पूर्वपूर्वरूपस्पर्शोपादानत्वादु-
-