2025-01-21 07:35:45 by ambuda-bot
This page has not been fully proofread.
सरः]
द्रव्यसाधनम्
सर्वार्थसिद्धिः
133
विशिष्टस्वरूपमेवेत्यपि निरस्तं ; विशेषणविशेष्यतत्संबन्धाति-
रिक्तविशिष्टायोगात् । द्वितीये कथं प्रत्यभिज्ञात्मकार्थक्रि-
याकारित्वम् ? निरन्तरस्वरूपं संघात इति पक्षेऽपि प्रत्येक-
पक्षवत् नेन्द्रियान्तरेण प्रतिसन्धिस्स्यात् ।
आनन्ददायिनी
विशेषणविशेष्येति—तथा च द्रव्यवादसधर्मकत्वयोः प्रसङ्ग इति भावः ।
द्वितीय इति यद्यपि शुक्तिरूप्यस्यापि तदिदमिति प्रत्यभिज्ञाविषयत्व-
मस्ति ; तथाऽपि प्रत्यभिज्ञाया अबाधितत्वेन प्रमात्वात् तन्मते अर्थ-
जत्वस्यावश्यकत्वे तज्जनकत्वेनार्थस्यार्थक्रियाकारित्वादसत्वं न स्यादिति
भावः । नन्वस्मिन् पक्षे व्यवधानाभावसहितं स्वरूपं संघातः संयोगस्य
नैरन्तर्यरूपत्वाङ्गीकारात् । अतो न संसर्गाख्य धर्मस्वीकार इति पक्षमनूद्य
दूषयति–निरन्तरेति–प्रत्येकपक्षवदिति-उभयेन्द्रियग्राह्यस्यैकस्याभावात् ।
न च नैरन्तर्यरूपाभावस्यैवोभयेन्द्रियवेद्यता; तथाऽप्युभयोर्निरूपकयोर-
ग्रहणे उभयनैरन्तर्यस्यापि ग्रहणासंभवात् । वस्तुतस्तस्य तुच्छतया
प्रत्यभिज्ञाक्रियार्थक्रियाकारित्वं न युक्तं ; अन्यथा तदादाय सधर्मकत्व-
भावप्रकाशः
क्रियासामर्थ्यलक्षणं । तस्य भावस्तस्मात् । वस्तुशब्दः परमार्थसत्पर्यायः ।
तदयमर्थः——यस्मादर्थक्रियासमर्थं परमार्थसदुच्यते तस्मात्स एव परमा
र्थसन् । तत एव हि प्रत्यक्षविषयादर्थक्रिया प्राप्यते ; न विकल्पवि-
षयात् । अत एव यद्यपि विकल्पविषयो दृश्य इवावसीयते तथाऽपि
न दृश्य एव ततोऽर्थक्रियाभावात् दृश्याच्च भावात् । अतस्तदेव
स्वलक्षणं ; न विकल्पविषयम् ॥ इति ॥
;
SARVARTHA.
3