This page has not been fully proofread.

32
 
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[जडद्रव्य
 
तत्वमुक्ताकलापः
 
संघातादेरयोगादवगमयति सा वस्तु रूपादितोऽ-
सर्वार्थसिद्धिः
 
स्वरूपं तस्य प्रतिसन्धानविषयत्वं च न युज्यत इत्याह संघाता-
देरयोगादिति । संघातोऽपि संघातिस्वरूपस्तदन्यो वा ? पूर्वत्र
न प्रतिसन्धानपदं । द्वितीये सत्यः असत्यो वा ? आद्ये
द्रव्यवाद एव वरं । संसर्गाख्यधर्मस्वीकारो वा । तेन परस्पर-
आनन्ददायिनी
 
न प्रतिसन्धानपदमिति --- न प्रत्यभिज्ञाविषय इत्यर्थः । संघातिस्वरू-
पाणां प्रतिनियतेन्द्रियग्राह्यत्वादिति भावः । द्रव्यवाद एव वरमिति-
अवयव्यादिवद्वृत्तिविकल्पदुष्टाप्रामाणिकसंघाताश्रयणा (द्रूपी) दपि घट इति
प्रतत्यिनुसारेण द्रव्यस्याङ्गीकारो न्याय्य इति भावः ।
 
ननु भवद्भिरपि तन्तुसंघातः पट इति स्वीकारात् स एवाङ्गीकर्तुं
युक्त इत्यत्राह — संसर्गाख्येति – तथाऽपि तवापसिद्धान्त इति भावः ।
भावप्रकाशः
 
स्वलक्षणानि । कस्मात्पुनः प्रत्यक्षाविषय एव स्वलक्षणं ? तथाहि-
विकल्पविषयोऽपि वह्निर्दृश्यात्मक एवावसीयत इत्याह- तदेव परमार्थ-
सदिति । परमार्थोऽकृत्रिममनारोपितं रूपं तेनास्तीति परमार्थसत् ।
य एवार्थ संनिधानासंनिधानाभ्यां स्फुटमस्फुटं च प्रतिभासं करोति
परमार्थसन् स एव । स एव च प्रत्यक्षविषयो यतस्तस्मादेव स्वलक्षणम् ।
कस्मात्पुनस्तदवे परमार्थसादित्याह - अर्थ्यत इत्यर्थः हेय उपादयश्च ।
हेयो हि हातुमिष्यते उपादेयश्वोपादातुं । अर्थस्य - प्रयोजनस्य क्रिया-
निष्पत्तिः तस्यां सामर्थ्यं-शक्तिः तदेव लक्षणं - रूपं यस्य वस्तुनस्तदर्थ-