2025-01-21 07:35:44 by ambuda-bot
This page has not been fully proofread.
सर:]
द्रव्यसाधनम्
31
भावप्रकाशः
अभिन्नदेशकालं स्वलक्षणमिति वक्ष्यते । धर्मकीर्तिश्चेत्थमाह न्यायबिन्दौ-
'तस्य विषयः स्वलक्षणं, यस्यार्थस्य सन्निधानासन्निधानाभ्यां ज्ञानप्रति-
भासभेदः तत्स्वलक्षणं तदेव परमार्थसत् अर्थक्रियासामर्थ्यलक्षणत्वाद्वस्तुनः
अन्यत्सामान्यलक्षणम्' इति । व्याचख्यौ च धर्मोत्तराचार्यः ----' तदेवं
प्रत्यक्षस्य कल्पनापोढत्वाभ्रान्तत्वयुक्तस्य प्रकारभेदं प्रतिपाद्य विषयविप्र-
तिपत्तिं निराकर्तुमाह-तस्येत्यादि । तस्य - चतुर्विधप्रत्यक्षस्य । विषयो-
बोद्धव्यः । स्वलक्षणं- स्वं असाधारणं तत्वं लक्षणं स्वलक्षणं । वस्तुनो
ह्यसाधारणं तत्वमस्ति सामान्यं च । यदसाधारणं तत्प्रत्यक्षग्राह्यं ।
द्विविधो हि प्रमाणस्य विषयो ग्राश्च । यदाकारमुत्पद्यते प्रापणीयश्च
यमध्यवस्यति ; अन्यो हि ग्राह्योऽन्यश्चाध्यवसेयः । प्रत्यक्षस्य हि क्षण
एको ग्राह्यः । अध्यवसेयस्तु - प्रत्यक्षबलोत्पन्नेन निश्चयेन सन्तान एव ।
सन्तान एवं च प्रत्यक्षस्य प्रापणीयः । क्षणस्य प्रापयितुमशक्यत्वात् ।
तथाऽनुमानमपि स्वप्रतिभासेऽनर्थेऽनर्थाध्यवसायेन प्रवृत्तेरनर्थग्राहि ।
स पुनरारोपितोऽर्थो गृह्यमाणः स्वलक्षणत्वेनावसीयते यतस्ततस्स्वलक्षण-
मध्यवसितं प्रवृत्तिविषयोऽनुमानस्य । अनर्थस्तु ग्राह्यः । तदत्र प्रमा-
णस्य ग्राह्यं विषयं दर्शयता प्रत्यक्षस्य स्वलक्षणं विषय उक्तः ।
कः पुनरसौ विषयो ज्ञानस्य यः स्वलक्षणं प्रतिपत्तव्यः ? इत्याह-यस्यार्थ -
स्येत्यादि । अर्थशब्दो विषयपर्यायः । यस्य - ज्ञानविषयस्य । संनिधानं-
निकटदेशावस्थानं । असंनिधानं - दूरदेशावस्थानं । तस्मात् - सन्निधा-
नादसंनिधानाच्च। ज्ञानप्रतिभासस्य ग्राह्याकारस्य । भेदः-स्फुटत्वास्फुट-
त्वाभ्यां । यो हि ज्ञानस्य विषयस्संनिहितस्सन् स्फुटमाभासं ज्ञानस्य
करोति असंनिहितस्तु योग्यदेशावस्थित एवास्फुटं करोति तत्स्वलक्षणं ।
सर्वाण्येव हि वस्तूनि दूरादस्फुटानि दृश्यन्ते समीपे स्फुटानि तान्येव