This page has not been fully proofread.

30
 
सव्याख्य सर्वार्थसिद्धिसहिततत्व मुक्काकलापे
 
[ जडद्रव्य
 
1
 
सर्वार्थसिद्धिः
 
तदिह संहतासंहत *' स्वलक्षणभेदमात्रं तु स्यात्
 
केचित्तु -
 
आनन्ददायिनी
 
तत्र संघात -
 
गाणम्मि अप्पऊणिअ आआरं वतु अप्पाणं ।
 
णिभाइ सोसरूवं धम्मो वा कोवि तस्सव्व ॥
 
इत्यादि सौत्रान्तिकपक्षे धर्माभ्यनुज्ञानात् कथंचिदवस्थामादाय
शङ्कासंभवेऽपि वैभाषिकपक्षो विशिष्यासंगत इत्याह विभज्येति इत्याहुः ।
ज्ञानेऽर्पयित्वा आकारं वस्त्वात्मनः ।
 
निर्भाति सस्वरूपं धर्मो वा कोऽपि तस्यैव ॥
 
इति तदर्थः । विभज्य–विशिष्येत्यर्थः । धर्मिवादि सौत्रान्तिकापेक्षयेति शेषः ।
ननु रूपादौ रूपत्वाद्यवस्था अतिरिक्ता माभूत् । किंतु रूपादि-
कमेव संहतावस्थं द्वीन्द्रियग्राह्यं ; तदेवासंहतस्वरूपं प्रतिनियतेन्द्रियग्राह्यं
भवत्वित्यनूद्य परिहरति--तदिहेति-
 
-
 
भावप्रकाशः
 
रसगन्धस्पर्शा इति चत्वारि द्रव्याणि । पृथिव्यप्तेजो वायुरिति चत्वारि ।
द्रव्यशब्दो वस्तुवचनः । तेषामष्टद्रव्यकोऽणुः" इत्यागमः (न्या - वा-
ता-टी) इति बुद्धागमविरुद्धभाषणेन वैभाषिक इति समाख्या भवतो
युक्तेति सूचितम् ॥
 
अतीत्यनेन 'सर्वशून्यवादिनापि हि संवृत्या विशिष्टधीरिष्यत '
इति वक्ष्यमाणमाध्यमिकपक्षादपि मन्दत्वं द्योत्यते ।
 
* स्वलक्षणेति — असंहतस्वलक्षणं निर्विकल्पविषयः संहतं तु
विकल्पस्येति बोध्यम् । अद्रव्यसरे (४२) चैतदर्थः स्फुटः ।