This page has been fully proofread once and needs a second look.

देवर्षिभिरपि संस्तूयमानविजयापदानमहिमा बहुमानाय
नारदादे:[^1] स्वच्छा[^2]लापमाकलयन्नति[^3]शीतलैरपाङ्गै:
सनकादीन् सनातनमुनीननुगृह्य क्षणमनुकम्प्य च
निलिम्पाधियतीन् सहस्रार्चिरिव मेदरमुदिरोदरे स्वयमपि
तिरोबभूव।
 
तदानीं च--
 
ब्रह्मादिमाः सुरगणा मुनयश्च सर्वे
सर्वेश्वरस्य च सुपर्वरिपुद्विषश्च।
अत्यद्भूतानि चरितानि निथो वदन्तः
स्वं स्वं पदं पुनरवाप्य चिरं ननन्दुः॥२१॥
 
त्रिपुरविजयाभिधानश्चम्पुरयं शाम्भवप्रसादेन।
नलशुकशकाब्द जातः प्राप्नोत्नाचन्द्रार्कं[^*] प्रचयम्॥२२॥

इति[^5] त्रिपुरविजयचम्पकाव्ये पञ्चम आश्वासः समाप्तः।
 
[^1]M- नारदादेवम्
[^2]M- स्वेच्छालापम्
[^3]M- आकलयति
[^4]A- चम्बु
[^5]A omits colopfron
[^*] चन्द्रतारकं would be better metrically.