This page has not been fully proofread.

1
 
लिमाधाय नमो ब्रह्मणे नमः सहस्रपादाय सहस्रशिरोऽक्षिबाहवे।
नमः साम्बाय सवृषाय सगणाय ससूनवे नमः सदाशिवाय
नमः शिवाय शिवतराय च नमो नमः स्वस्ति देवेभ्योऽस्तु
स्वस्ति मनुष्येभ्यः स्वस्ति पितृभ्यः स्वस्ति चराचरेभ्यः
स्वस्ति गोब्राह्मणेभ्योऽस्त्विति मुहुर्मुहुरा समानेषु पाक-
शासनमुखेषु बहिर्मुखेषु विस्मयास्तमित कर्तव्यतया
विस्मृत्य समरमेव केवलं प्रेक्षकतामांपन्नेषु दैत्येषु च
केषुचित धराधरो नाम शरासनं धरा नाम रथः फणी
नाम शिञ्जिनी परा भञ्जनीय भुजबलास्मत्पराभूतिभियां
स्वरूप माच्छादयन् गोपालबाल एवं शिलीमुखः कानन-
वराहकिरात एव च प्रतियोद्धास्माकमिति सावज्ञसहस्त-
तालपरिहासोक्तिमुखरेषु अपरेषु च दनुजवरेषु दुर्जय
एष निर्जरलो कनेला कालकूटसाहसिक इति ससंभ्रम
परिक्रम्य सर्वेरुपायैरपि बलैः सर्वया च शक्त्या सर्वाप्यपि
महायुधानि सर्वतोऽपि तस्मिन महाधन्विनि तस्मिन
 
9
 
22. Aamits तस्मिन: महाधन्विनि
 
1. M - नम ऋषिभ्यो
देवेभ्योऽस्तु
 
k