This page has been fully proofread once and needs a second look.

किं बहुना--
विध्यण्डावधि वैभवं विधिहरित्र्यक्षावधिर्धिक्कृति-
र्दोर्वीर्यं कुलशैलचालनसमुत्क्षेपप्रभेदावधि।
धैर्यं प्राणविमोक्षणावधि चमूसङ्ख्या परार्धावधि-
र्देयं ब्रह्मपदावधि प्रणमते तेषां सुपर्वद्विषाम् ॥११॥
तैश्च तथा निस्तुलैश्वर्यमदोद्वृत्तैरुद्यततमःप्रवृत्तिभि-
र्विद्युन्मालिप्रभृतिभिरुद्दामभिर्दानवेन्द्रैः निरन्तर-
बन्दीगृहनिर्व्याजसीमाक्रमनिरपराधदण्डादिभि-
रहन्यहनि पीड्यमाना मानमपहाय निष्फलतयैव
तद्भृत्यगृहबहिर्द्वाराणि अध्युष्याध्युष्य निर्विण्णा:
शतमखमुखा: बर्हिर्मुखाश्च चतुर्मुखोपदिष्टबुद्धयो
दीनत्राणपरायणं नारायण[^*]मेव शरणमिच्छन्तः तच्छयन-
मन्दिरं क्षीरसागरमुद्दिश्य प्रमुदिताः प्रतस्थिरे ।
 
[^1]M- हर

[^2]M has gap for तमः

[^3]A- पीड्यमान

[^4]M omits अध्युष्य

[^5]M omits बर्हिमुखाश्च

[^*]`T’ starts here, all the preceding portion being
 
lost.