This page has been fully proofread once and needs a second look.

तेषु च जङ्‌मेषु पौरा: प्रतिप्रयाणं जलाशय-
निर्माणनिर्विण्णाः प्रतिवेश्म स्थापयन्ति स्म नित्य-
जलानि पुष्कलावर्तकशकलानि। अपि च तेषां
चक्र[^1]वालाद् बहिरपि निरङ्कुशगतिकतया तमो जयाय
शिरोगृहेषु बबन्धुर्महान्ति नक्षत्राणि।
 
तानि त्रीणि पुराण्यवाप्य तपसा वेधोवरात्युद्धता:
विद्युन्मालिमुखास्त्रयोऽसुरवरा लोकत्रयीकण्टकाः ।
जह्रुर्देववधूः प्रजह्रुरमरान् संजह्रुरार्तानृषी-
नाजह्रुर्वसु भूर्भुवस्स्वर[^2]भितोऽप्येवं विजह्रुश्चिरम् ॥ १०॥
 
तदानीं च स्त्रीणां[^3] विरूपता जरा वाप्यलं शील-
संरक्षणाय सौन्दर्यं बन्दी[^4]ग्रहणाय मुनीनां च निर्मांस-
शुष्कशरीरता प्राणभरणाय समांसता तु दुर्मरणायेति
संवृत्तम्।
 
[^1]M- चक्रवाल॰
[^2]M- अहितः
[^3]This is the em. reading All miss read स्त्रण
[^4]M - पदग्रहणाय