This page has been fully proofread once and needs a second look.


अनन्तरं जलन्धराभिहितोऽपि निरस्यंरोमन्थ-
माकुञ्चिततनो: किञ्चिदिव वृषादवरुह्य संभ्रमप्रणय
प्रसारितैर्दशभिरपि भुजैश्चतुर्भुजमुद्दधार। परिजहार
च तद्वक्षसि लक्ष्मीसन्निधानात् प्रणयपरीरम्भणय्
दयमानः कटाक्षयामास च सविनयनन्दीरितालोक-
शब्द: पद्मनाभकृत[^1]नामनिर्देशान् पाकशासनमुखान्[^2]
दिगीशानष्टाद्म[^3] सन्तिकृष्टान् प्रणतानन्यानपि विदूरतो
वन्दमानान् वृन्दारकान् तदनु दनुजशासनश्चतुर्भुज-
श्चन्द्रशेखरमहिमस्तवाय मन्दमञ्जलिद्वन्द्वमाबबन्ध।
 
आलिङ्ग(न्)[^5] प्रणमन्निव व्रजवधूधूर्तः स्वयं मेदिनी-
मद्यालिङ्गति चारञ्जलिं विश्चयँलक्ष्मी मसौ वक्षसि ।
इत्थं[^*](मुग्धया)[^6] गणान्प्रति(वद)[^7] त्युच्चै: सहा(से)[^8] हरे
मन्दस्मेरमुखाम्बुजौ हरिहरौ व्रीडापराची शिवा॥९॥
 
 
[^1]M- ॰विकृत॰
[^2]T- मुखा
[^3]T- अष्टापि,
[^4]M omits this word.
[^5]M,T- आलिङ्गात्
[^6]M reads इत्थमुद्धतया which is metrically wrong., इत्थं मुग्धतया is the suggested reading.
[^7]M- वदन्ति
[^8]M - सहासो
[^*]“T” is wanting in a leaf containing the portion इत्थमुद्धतया to तारकासुर(निषूदनम्) (on p.46)