This page has been fully proofread once and needs a second look.

तथा हि

अशिक्षितक्षुद्रकुटीनिवेश-
खेदाः प्रयाणेष्वपि येषु पौराः।
सुखेन मञ्चेषु गृहे शयाना
हन्तेष्टदेशानभजन् क्षणेन॥७॥
 
गृहेषु[^1] रथ्यासु तथापणेषु
सदैकरूपेषु जनाश्चरन्तः।
न ते विदुस्तानि विदेशगानि
विना बहिर्निर्गमनं पुरेभ्यः ॥८॥
 
सञ्चरत्सु पुरेष्वेव[^2] नरास्तेषु सुखोषिताः।
आचार इति यानानि संररक्षुर्गृहे गृहे ॥ ९॥
 
[^1] A- गृहे न रथ्यासु
[^2] A- पुरेष्वेव तेषु नराः सुखोषिता: ।
M- पुरेष्वेतेषु नराः सुखोषिताः।