This page has been fully proofread once and needs a second look.

धार्यमाणचरणारविन्दः स्कन्दा[^1]ग्रजदत्तदूर्वाङ्कुरास्वाद[^2]समद-
वल्गि[^3]तकरकुरङ्गशिशुश्शशिखण्डमण्डनो विद्युमण्डलापाण्डर-
कलेबरद्युतिरिन्दीवरकोकनदपुण्डरीकारविन्दपङ्कजमाला-
नुकारिमुखपञ्चक[^5]श्शिशिरसञ्चरदपाङ्गपञ्चदशकानुगृहीत-
चतुर्दिशवन्दमानकर्मन्दिजनो जनार्दनमार्गनिहितेक्षणः
क्षणं[^7]बभूव।
 
अनन्तरं नन्दिकेशः केशवाय सुरगणमेलनविलम्बिने-
पुन:[^8] प्रमथान्[^9] नियुञ्जानो भृङ्गिणमपि निर्दिदेश।
 
प्रत्याह नन्दिनं भृङ्गी ततः क्रोधभयङ्करः।
संभ्रमस्वेदनिर्मुष्टसान्द्र भस्मावगुण्ठनः॥५॥
 
मया दृश्यः स्पृश्यस्त्वरितमभिगम्य प्रणतिभिः
प्रसाद्यो विज्ञाप्यः प्रमथपतिरेव व्रतमिदम् ।
शिर[^10]श्छिन्तां भिन्तामपि मम वपुः कोऽपि शतधा
शपे पद्भयां शम्भोर्न परमुखमीक्षे कथमपि॥इति॥६॥
 
 
[^1]A- सदाग्रजदत्त॰, T- एकदाग्रजदत्त॰
[^2]A,M have सदा for आस्वाद
[^3]M, T- ॰वलित॰
[^4]T- अनुविन्द, A,M- अनुविद्य, अरविन्द is the emended reading
[^5]T- ॰पञ्चर॰
[^6]T omits शिशिरसञ्चर॰
[^7]A,M- कणं
[^8]T adds पुनः
[^9]A- प्रथमान्
[^10]M- शिरश्छिन्नांभिन्नामपि