This page has been fully proofread once and needs a second look.

स्तत्क्षणमसुरेन्द्रास्तन्मतं रोचयामासुः चिन्तयामासुश्च।
कथमेषामेवास्माकं भ्रमो वृत्त:। पश्यत। शिल्पिभिः कृतानां[^1]
शिलानां तत्रापि निरवकाशग[^2]र्भानां प्रतिमासु देवतास्तिष्ठन्ति
नाम। अपि च लौकिकाग्नेर्वैतानाग्नेश्च को विशेषः। तत्र हि
वयमस्मदावश्यकान्येव घृतक्षीरदधिमुखानि बहो: कालात्
प्राक्षिपाम:। इदं चद्भुतमेव। जानद्भिरेव चाणूरमर्दनस्य
वृन्दावनविहारं शृण्वद्भिरेव शम्भोर्दारुकावनभीरु
भुजङ्गतामनुभूतश्चिरा देकदारव्रतखेदः। अलं गतमनु-
शोच्य। साधयामस्सुखमितःप्रभृतीति तत्क्षणं च ते
निरस्तदेवताविश्वासा: अप्यनेन विशेषदर्शनं वृत्तमिति
भगवन्तं मुकुन्दं पूजयामासुः। ततश्च तथा पूज्यमानस्सः
तद्विश्वासदाढर्याय तत्रैव कियन्तं कालम[^4]वात्सीत्। अथ
तेषां प्रबोधास्तनयेन मोहान्धकारपतितानामुत्पथ-
 
[^1]A- कृतानामाशीलानाम
[^2]A- ॰गर्भाम् प्रतिसुमासु, M- गर्भायप्रतिसुमासु
[^3]T omits हि
[^4]A - आसी
 
 
3. Tomits for
 
4. A - आसी
 
-
 
31