This page has been fully proofread once and needs a second look.

यन्नारायणदीक्षितेन्द्रतनुभूसाधारणं घुष्यते
यच्च श्री(युत)[^1] नीलकण्ठमखिनः सोदर्यतालक्षणम् ।
विद्वांसस्तदिदं समस्तमधुना श्रीकण्ठदासस्य मे
लक्ष्य[^2]न्तामतिरात्रया[^3]जि(मखिन:)[^4] पाण्डित्यमत्यद्भुतम्॥६॥

श्रूयते खलु बहुशस्तदितिहासपुराणादिषु साक्षा-
देव श्रुता[^6] अपि यदौ[^7]रसास्तारकासुरस्य पुत्रा वित्रासित[^8]सुत्रामादयो विद्युन्मालितारकाक्षकमलाक्षनामानः
<flag>उद्यामानस्त्रयो</flag> विधिदत्तवरगर्विता निरङ्कुशान्ययोरजत[^9]हेममयानि त्रीणि[^10] पुराण्यधिवसन्तः त्रीन् लोकान्
सञ्चेरुरिति। तानि च पुराणि जङ्गमान्यद्भुतान्येव ।
 
[^1] All mss. have gap
This is the emended reading.
[^2] A- वक्ष्यान्तम्
[^3] A-॰याज॰
[^4] This is the em. reading. All mss. have नयित:
[^5] A- पाण्ड्यर्त
[^6] A- श्रुतावपि
[^7]M- यदौरस:
[^8]M- व्यत्रासित॰
[^9]A omits त
[^10]A- त्रिपुराणि