This page has been fully proofread once and needs a second look.

पप्रच्छ पश्चात्सुखमार्गलुब्धः
स तार्क्ष्यकेतुं दनुवंशकेतु:।
निरर्थकं कर्म भवेद्यदीह
प्रमाणमेकं भगवन् वदेति॥७॥
 
अथ भगवति मधुसूदने तत्रो[^1]त्तरं विवक्षति सर्वकर्म
विशारदो नारद: प्रतीपवचसा भार्गवाचार्येणान्तरान्त-
रायमाशङ्कमानः स्वमातरं सरस्वतीमनुस्मृत्य मनसीद-
मवादीत्। देवि[^2] जगद्विताय किञ्चिद्विज्ञा[^3]पयामि-
 
यदा[^*] यदाय भार्गवः प्रतिकूलं विवक्षति।
तदा त्वमम[^4] च स्नेहानुकूलेव निस्सर॥इति।९॥
 
अनन्तरं च-
वत्स श्रीकमलाक्ष तापस इति प्रश्नं वृथा मा कृथाः
सोऽयं दैत्यकुलान्तको मधुरिपुर्मायां विधाया[^5]गतः।
इत्थं वक्ष्यति भार्गवे प्रचलिता वाचस्तु तस्याननात्
प्रश्नेनालमितः प्रमाणमपरं किं वास्य वाक्यादिति॥२०॥
 
 
[^1]M- तत्र तारं
[^2]A, M have मदपि for देवि
[^3]A- विज्ञापयान
[^4]T- मयि, omits च
[^5]T- आगतमिति
* यदा यदा भार्गवोऽयं will be better metrically.