This page has been fully proofread once and needs a second look.

किञ्च--
कर्णाभ्यर्णनिविषृमुष्टिसुदृढव्याकृषृसर्पेश्वरं
ज्यानम्रामरशैलमौलिनिपतद्दिक्पालपुर्यषृकम् ।
अण्याद् विश्वमकाण्डसंकुल[^1]वलत्क्रूरप्रकाराजल-
ज्वालान्त: कबलीकृतासुरपुरं घोरं पुरारे: स्मितम्॥३॥
 
श्रेयसां यद[^2]पादानमपदानं पुर[^3]द्रुहः ।
चम्बुं[^3] करोमि तदिदमम्ब वाणि प्रसीद मे ॥४॥
 
आस्ते तत्फलमादिमं भगवतः शंभो: प्रसादो महा-
नन्यच्चास्य[^5] हि नान्तरीयकतया सिद्धयेत् प्रबन्धस्य नः।
दोषं[^6](क)ञ्चन लेशत: कुहचिदप्यन्विच्छतः खिद्यतो
दृश्यं यन्मलिनं खलस्य वदनं मात्सर्यतः शीर्यतः ॥५ll
 
[^1] A- ° संकुवलत्
M-° संकुवलयत्
The reading chosen is in accordance with
the expression on Āśvāsa v.
[^2] M- यदपादाभमपदाभं
[^3] M- पुरं दुहः
[^4] M- चम्बकरोम
[^5] M- यञ्चास्य हि
[^6] M - दोषः
[^7] All mss. have किञ्चन This is the em. reading.