This page has been fully proofread once and needs a second look.

कः कोऽत्र रे कलकलः क[^1] इवा[^2]यमासीत्
इत्याकलय्य वचनान्यथ तस्य शौरे:।
द्वारि स्थिताः सभयमन्तरुपेत्य तस्मै
व्यज्ञापयन् सुरगणं मिलितं समस्तम्॥१६।।
 
तदनु तेन दनुजशासनेन तत्प्रवेशदत्तशासना:-
प्रतिहारवासिनस्त्वरितं बहिर्निर्गत्य “भो भो सहस्राक्ष
दिदृक्षति त्वां तार्क्ष्यकेतनः; प्रविश पाशधर; तिष्ठ पाश-
धरानुचर; सविनयमेहि दण्डधर त्यजोद्दण्डतां; राजराज
समीकुरु कुण्ठा[^3]भरणं; मा त्वरस्व मातरिश्वन्, शीतो
भव जातवेद: ; चारणागन्धर्वा: समयं विज्ञाय गायत;
पिशाचा[^4] रे स्वामिना कृताभ्यनुज्ञा निषीदत[^5]” इति वचो-
भिर्भगवत्सभाधिरोहे कर्तव्यान्युपदिशन्त: सर्वानपि
सुपर्वणो यथार्हँ प्रवेशयामासुः।
 
 
[^1]M reads कल: in which case the metre becomes defective.
[^2]T- उपायमासीत्
[^3]T.C. कर्ण॰
[^4]M- विशाचारे स्म मनाक् कृता॰
[^5]M- निषीदते तु, T.C.- निषीदन्तेति
[^6]A,M- उपदृशन्तः