This page has not been fully proofread.

कः कोऽत्र रे कलकलः क ईवायमासीत
इत्याकलथ्य वचनान्यथ तस्य शौरे: ।
द्वारि स्थिताः सभ्यमन्तरुपेत्य तस्मै
व्यज्ञापयन सुरगणं मिलितं समस्तम् ॥ १६
तदनु तेन दनुजशासनेन तत्प्रवेशदत्तशासना:-
प्रतिहारवासिनस्त्वरित बहिनिर्गत्य भो भी महस्राक्ष
दिवृक्षति त्वां तार्क्ष्यकेतनः प्रविश पाशधर; तिष्ठ पाश-
धरानुचर; सविनयमे हि दण्डधर त्यजोद्दण्डतां; राजराज
समीकुरु कुण्ठाभरण; मा त्वरस्व मातरिश्वन, शीतो
भूव जातवेद: : चारणांगन्धर्वा: समयं विज्ञाय गायत;
पिशाचा रे स्वामिना कृताभ्यनुज्ञा निषीदत इति वचो-
भिर्भगवत्सभाधिरोहे कर्तव्यान्युपदिशन्त: सर्वानपि
सुपर्वणो यथाई प्रवेशयामासुः
 
;
 
1. M reads of is in which
 
case the metre becomes defective
 
*
 
4. T- उपायमासीत्
 
3. T.C. कर्ण
 
O
 
4. M - विशाचारे स्म मनाक कृता'
 
5. M - निषीदते त
तु
T.C.- निषीदन्तेति
 
6. A,M - उपहशन्तः