This page has not been fully proofread.

ततश्च ते पाकशासनमुखा दिवौक्सो विकसति
पुण्डरीक इव तस्मिन् तत्कर्णिकापीठ इव च श्वेतद्वीपे
तन्मकरन्दरसानन्दनिष्पन्दमिव मिलिन्दं मुकुन्द -
मालोकयितुं निर्मलकलशजलधिनिश्चलमध्यभाग-
प्रतिफलित वैकुण्ठ रूपं श्वेतद्द्वीपमंधिगत्य प्रथमकक्ष्या-
यामेव तार्यविष्वक्सेन प्रभृतिभिः प्रतीहाराधिकृतै
रुदण्डप्रवृत्तिभिर्दण्डपाणिभिर्निद्रावसरोऽयमसुरजाति-
द्रोहिणो भगवतः सन्निहितान्तःपुरस्य दामोदरस्य
नोयमवसरो युष्माकमिति निवार्यमाणाः प्रकृतकार्य
त्वरमाणा अपि त्रिजगदध्यक्षपुण्डरीकाक्षप्रभावानु
रोधिनस्तदवसर प्रतिपालयामासुः ।
 
अर्थ तत्प्रबोधप्रतीक्षकसहस्राक्षमुखसुपर्वगण-
सुकृतपरिपाकनैव संजनितजातिवैरस्मरणः कृतान्तकासरः
संवर्तप्रवृत्तपुष्कलावर्तक निर्धात घोर निर्घोषः खुरपुट-
1. Momits च
 
3.A,T- मरंद
 
3. A,Momit दण्डपाणिभिः
 
4. M omits of
 
5 M. T - भरवस्थ
 
6. Momits सु.
 
1
 
13