This page has been fully proofread once and needs a second look.

क्षीरोदम्।
 
कल्लोलाहतिपातितान् क्रमवशादावर्तगर्तागता-
नूर्ध्वा[^1]ग्रान् भ्रमिवेगनिश्चलधृतानालक्ष्य कूलद्रुमान् ।
द्वीपे यस्य पुराविदो वनचरा: कल्पद्रुमा इत्यहो
याचन्ते परितः प्रसारित[^2]करा: स्व[^3]स्वेप्सितार्थान् वृथा॥१२।।
 
श्रीरेव यस्य दुहिता[^4] हरिराप्रबन्धु-
स्तारा स्नुषा, तनुभवश्च सुधानिधानम्।
प्रादायि येन सुरभिः सुरपादयो[^5]ऽथ
चिन्तामणिश्च य इमे जगतां वदान्या:॥२३।
 
तत्र हि तदा दामोदर:
 
तल्पीभवद्भुजगराजफणोपधान-
विन्यस्तमौलिकमलाङ्कनिवेशिताङ्घ्रि: ।
श्रीसन्निधानमुकुलीकृतनाभिपद्म-
निश्शब्दलीनसमयज्ञविधातृ शेते ॥१४॥
 
[^1]M- अध्वाग्रामान्
[^2]T- ॰प्रसादित॰
[^3]M- सु॰
[^4]A- दयिता
[^5]A,T,Tc- ॰पादपो वा