This page has been fully proofread twice.

श्रीमदतिरात्रयाजिप्रणीतम्
त्रिपुरविजयचम्पूकाव्यम्
 
मौर्वी मूर्ध्नि(च)रः[^1] शरासनशिरस्सञ्चारि चक्रद्वयम्[^2]
चक्रान्तर्निहितः शरस्तदुदरे सूतस्तदास्ये हयाः।
तेषामेव शिरस्पदेषु वसतिः स्वस्येति यस्य श्रुतं
देवश्चित्रपरिच्छदः स दिशतु श्रेयांसि भूयांसि नः॥ १॥

अपि च

चक्रीभूते शशाङ्के परिणमति तथा मण्डले चण्डभानो:
काले कस्मिन् विधातः कथय पुरहरस्त्रीण्यधाक्षीत् पुराणि
इत्थं स्कन्देन पृष्टे विमृशति सुचिरं ध्यानमास्थाय[^3]धात-
र्यानन्दोद्भिन्नमन्दस्मितमवतु[^4]मुखं सुन्दरं चन्द्रमौलेः ॥२॥
 
[^1.] All mss. have शर:, चर: is the emended reading.
[^2.] A चक्रं द्वयं
[^3.] M- ध्यात
[^4.] M- अवे <flag>(त्तत्?)</flag>