This page has not been fully proofread.

तृतीय आश्वासः ।
 
इत्यमिति । सा साक्षात्कृतपरमेश्वरा, सुरततिका देवसमूहः इत्थम्
अनेन प्रकारेण साधुतराः भक्तिररूपितत्वादतिशयेन साध्वीः, गाः वाचः,
निगद्य उक्त्वा, रुद्रं परमेश्वरं, नमश्कार प्रणतवती । उमां च
''शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं
न चेदेवं देवो न खलु कुशल: स्पन्दितुमपि । "
 

 
इत्यायुक्तदृष्ट्या शक्तिमन्तरेण शक्तिमतोऽकिश्चित्करत्वं मन्यमाना भगवत्लेयमीं
पार्वतीमपि नमश्चकार । कीदृशी विषयान्तरेषु शब्दादिष्विन्द्रियार्थ-
विशेषेषु, धुतरागा त्यक्ताभिलाषा । भगवत्येव बद्धरागेत्यर्थः । तथा रोमाश -
स्फुरिता रोमाश्चेन भक्त्यतिरेकोद्भिन्नेन रोमहर्षेण स्फुरिता शोभिता ॥ १० ॥
 
अथ शिवः श्रीनन्दिकेश्वरमुखेनासुरवधं प्रतिज्ञातानित्याह-
अथ नन्दी प्रोवाच स्थितबान् पार्श्वे हरस्य दीप्रो घाश्वः ।
पुरुषोत्तमरुद्राजस्कन्दादित्याग्निमारुतमरुद्राजः ॥ ११ ॥
 
अथेति । अत्रैवं प्रमेयसंक्षेपो बोद्धव्यः- देवानामनिवार्यवीर्यासुरसमा
पादितानां विपदामुक्तिसमये पार्वती 'पुरतः क्रीडन्तं तव पुत्रं स्कन्दं पश्ये 'ति
भगवन्तमुक्तवती । ततः पुत्राक्षिप्तहृदयो भगवान् देवानचिन्तयित्वा स्वगेहूं
पुत्रादिभिराविवेश । ततो भगवदन्तर्धानाद् 'असुरा एव धन्याः वयमधन्या एव'
इत्यादि बहूच्चैर्भाषमाणान् देवान् किं तावच्छन्दं कुरुतेति दण्डेन कुण्डोदर
स्वाडयामास । ततो भीत्या गमनायोपक्रान्तान् देवान् भगवदाज्ञयैवेति नन्दीशः
कुण्डोदरं निवार्य उवाच । तथाचोक्तम् –
 

 
"क्रीडमानं विभो ! पश्य षड़वक्रं रविसन्निभम् ।
पुत्रं पुत्रवतां श्रेष्ठ! भूषितं भूषणैः शुभैः ॥
इत्याद्यैर्लोकमातुश्च वचोभिश्वोदिनः शिवः ।
न ययौ तृप्तिमीशानः पिबन् स्कन्दानामृतम् ॥
न सस्मार च तान् देवान् दैत्यशस्त्रनिपीडितान् ।
अविशत् सह देवोऽपि देव्या स्कन्देन नन्दिना ॥