This page has not been fully proofread.

सव्याख्ये त्रिपुरदहने
 
.
 
नगरीरिति । हे भव ! शिव ! इति श्रीनामशालिन् । विश्वोत्पत्ति-
स्थानत्वाद् भवः, मङ्गलरूपत्वाच्छिवः, देव ! द्योतनात्मक!, घुसदां देवानां
सेना चमूः, ताः असुरसम्बन्धिनीः, तिस्रः त्रिसङ्ख्याता: नगरी: पुरी:,
समेत्य युद्धार्थ प्राप्य, स्रस्ता गलिता, भवति । पलायनपरा वर्तत इति यावत् ।
कीदृशी । सकुमारा कुमारेण स्कन्देन सहिता । देवसेनानी स्कन्द पुरीं
प्राप्य पलायत एवेत्यर्थः । अनेन दण्ड पूपिकया असामर्थ्यस्य दोषाभावः कथ्यते ।
किं प्राप्य किमिवेत्यत्राइ- प्रभञ्जनमिति । प्रभञ्जनं वायुं प्राप्य तूलराशिवत्
तूलराशिना बन्धुरसमूहेन (१) तुल्यम् । यथा वायौ वाति तूलराशिः इतस्ततो
विक्षिप्यमाणो भवति तथा असुरेषु युद्धांद्युक्तेषु देवसेना इतस्ततः पलायिता
भवतीत्यर्थः ॥ ८ ॥
 
तर्ह्यस्मत्तः किं प्रार्थ्यते
 
०२
 
३त्यत्राहुः
 
तद्दहनसमायां तु त्वद्रुषि भगवंत्रिलोचन ! समायान्तु ।
अरयोऽमी शालभ्यं त्वत्तोऽस्माकं भवेत् किमीशालभ्यम् ॥ ९ ॥
तदिति । हे भगवन् ! ऐश्वर्यादिगुणयुक्त ॥ तादृशस्य तव किमशक्य-
मिति भावः । हे त्रिलोचन त्र्यम्बक ॥ एतदेव ते लोकोत्तरत्वमभिव्यक्तीति
भावः । यदस्माकमसुरवधे सामर्थ्याभावः, (यतः ) तस्मादमी प्रकृता, अस्यः शत्रवः
दहनसमायां तु । तुरवधारणे । अग्नितुल्यायामेव, त्वद्रुषि तब क्रोधे, शालभ्यं
शलभत्वं, समायान्तु प्राप्नुवन्तु । यथा शलभा दहने पतित्वा भस्मसाद्भवन्ति
तथास्मदरिभिरपि त्वत्कोपामौ पतित्वा भस्मसाद्भवितव्यमित्यर्थः । कुत इयं
मां प्रति प्रार्थना किमित्यन्यो न प्राथ्येते इत्याहुः - त्वत्त इति । हे ईश!
अस्माकं त्वत्तः त्वत्सकाशाद्, अलभ्यमप्राप्यं किं भवेत्, न किमपि । सर्व-
मप्यस्माकं त्वत्त एव लभ्यं नान्यस्मादित्यर्थः । अतः त्वां प्रार्थयाम इति भावः ॥ ९ ॥
इत्थं स्तुत्वा दुरवस्थां विज्ञाप्य तत्प्रतीकारार्थ सशक्तिकं भगवन्तं
भक्तयतिरेकात् साष्टाङ्गपातं प्रणेमुरित्याह ---
 
-
 
इत्थं साधुतरा गा निगद्य विषयान्तरेषु सा धुतरागा ।
सुरततिका रं माञ्चस्फुरिता रुद्रं नमश्चकारोमाञ्च ॥ १० ॥