This page has not been fully proofread.

तृतीय आश्वासः ।
 
९१
 
जन्नसमयै प्राप्नोतीति तथा । (प्रेतसकाशावासस्थिरचित्त ! ) प्रेतानां गणविशेषाणां
सकाशे सविधे आवासो वासक्रिया तत्र स्थिरचित्त !, त्र्यम्बक ! त्रिनेत्र!,
आशावास ! दिगम्बर ! जय सर्वोत्कृष्टतया वर्तस्व ॥ ५ ॥
 
इन्दुसमाननदेशप्रमया जय भक्तकुमुद माननदेश ! ।
 
जय जितकाम! जयाहिस्फुरित! कृपामिह जनेऽधिकामज! याहि ॥ ६ ॥
 
इन्द्विति । इन्दुसमाननदेशप्रभया इन्दुना चन्द्रेण तुल्यस्यानन देशस्य
मुखप्रदेशस्य प्रभया कान्त्या, भक्तकुमुदमाननद ! भक्ता एव यानि कुमुदानि
तेषां माननं सम्माननात्मकं विकास ददातीति तथा, हे ईश विश्वसर्गादौ
शक्त! जय । जितकाम! परिभूतमन्मथ ! जय । अहिस्फुरित! कटक.कटिसूत्रा-
दिभूषणतां गतैरहिभिः सर्पैः स्फुरित ! शोभित! जय । एवं स्तुत्वा भगवन्तं
प्रार्थयन्ते. कृपामिति । हे अज ! जन्मरहित । इहास्मिन् त्वदेशरणे
जने । अस्मास्वित्यर्थः। अधिकां प्रभूतां, कृपां दयां, याहि प्राप्नुहि ॥ ६ ॥
 
-
 
कः पुनरिदानीं विशिष्य कृपा प्रार्थनावकाश इत्यत्राहुः -
 
-
 
नाथ! बलादेवाद्य त्रिभिरसुरैर्देहिनोऽखिला देवा ! ।
निजविपदे बाध्यन्ते तिष्ठत्यपि भवति शश्वदेवाध्यन्ते ॥ ७ ॥
 
नाथ । बलादेवाद्य त्रिभिर सुरैरिति । हे नाथ ! स्वामिन् ! देवाद्य !
देवश्रेष्ठ ! अद्येदानीमाध्यन्ते आधिर्मानसी पीडा तस्यन्ते नाशे विषये, शश्वत
सदैव, भवति त्वयि, तिष्ठति सत्यपि, त्रिभिस्तारकाक्षादिभिस्प्रिंभिर सुरैः, अखिला
न केवलं वयमेव सर्वेऽपि, देहिनः शरीरिणः, निजविपदे आत्मीयायै विपदे
विनाशाय, बलादेव स्वसामर्थ्यादेव न तु यं कञ्चन बलीयांसमाश्रित्य, बाध्यन्ते ।
अयमर्थ:- जगद्रक्षा जागरूके त्वयि वर्तमाने यतोऽमी जगत् पीडयन्ति ततस्त्व-
गोषपावकज्वालामालावलीढदेहतया भस्मीभाव एवैषां फलं भविष्यतीति ॥ ७ ॥
 
किमिति मां प्रति विज्ञाप्यते । भवद्भिः प्रतिविघातव्यमेतत् । इत्यत्राहुः -
नगरीर्भव ! तिस्रस्ता द्युसदां सेना समेत्य भवति स्रस्ता ।
सकुमारा शिव! देव ! प्रभञ्जनं प्राप्य तूलराशिवदेव ॥ ८ ॥