This page has not been fully proofread.

सव्याख्ये त्रिपुरदहने
 
इति लक्षितापह्नुतिरलङ्कारः । उमायाः बल्लत्वेिन रूपणाद् भगवतो द्रुमत्वेन
रूपणमर्थ सामर्थ्यादवसीयते । अत एकदेशविवर्तिरूपकं च । अत्र मधुपत्रात-
-
मन्थरत्वस्योमाया बल्लीत्वारोपं प्रति उपपादकत्वेनापहनुते रूपकं प्रत्यङ्गस्वात्
रूपका पहनुत्योः
 
"अविश्रान्तिजुषामात्मन्यज्ञाङ्गित्वं तु सङ्करः ।"
 
इत्युक्तलक्षणः सङ्करः ॥ ३ ॥
 
चूडाकेत कलेश स्पर्धि जटाजूटकृतनिकेत कलेश! ।
 
जय मुखतामरसरसास्वाद नकलहंस ! गिरिसुतामर सरसः ॥ ४ ॥
 

 
चूडेति । चूडाकेत कलेश स्पर्धिजटाजूटकृत निकेतकलेश ! चूडा
मूर्धा तत्र यः केतकलेशः भूषणार्थं घृतं केतककुसुमशकलं तेन स्पर्धितुं शील-
मस्येति तथा केतकलेशसदृश इत्यर्थः केतकस्य ले शोपादानं चन्द्रकला या स्त
नीयस्त्वेन तत्साम्यसिद्ध्यर्थं, चूडया विशेषणं च केतकलेशकलेशयोरे कत्रा व स्थानमत्
स्पर्धायास्सम्भाव्यत्वसिद्ध्यर्थम् । 'अथ मूर्धनि । चूडाशिखावलभ्योश्चे'ति
केशवः । जटाजूटो जटाबन्धः तत्र कृतो निकेतो निवासो येन स तथा ।
चूडाकेत कलेशस्पर्धिजटाजूटकृतनिकेतः कलेशश्चन्द्रो यस्य तस्य सम्बोधन
तथा । गिरिसुतामरसरसः गिरिसुता पार्वती सैव यदमरसरो गङ्गा तस्य,
मुखतामर सरसास्वाद
नकलहंस ! मुखमेव यत्तामरसं पद्मं सत्र यो रसः अधरा-
मृतलक्षणो मकरन्दः तस्यास्वादने कलहंस ! राजहंस ! जय सर्वोत्कृष्टतया
वर्तस्व ॥ ४ ॥
 
अङ्कार्धन्य स्तन गप्रियतन याकुङ्कुमार्द्रघन्यस्तनग! ।
 
प्रेत सकाशात्रासस्थिरचित्त ! जय त्र्यम्बकाशावास ! ॥ ५ ॥
 
अङ्कार्थेति । अङ्कार्घन्यस्तन गप्रियतनया कुङ्कुमाई धन्यस्तनग
अङ्कस्योत्सङ्गस्यार्धे वामोरूपरि न्यस्तायाः स्थापिताया नगप्रियतनयायाः पार्वत्याः
कुङ्कुमेन घुसृणेन अ सरसौ धन्यौ विशिष्टौ कमनीयौ स्तनौ गच्छति आलि-