This page has not been fully proofread.

तृतीय आश्वासः ।
 
" मङ्गल्यं तु निमित्ते स्यान्मङ्गलस्याभिधेयवत् ।"
 
इति केशवः । कीदृशा देवप्रवराः । सविकासाक्षा: विकासो विकस्वरता
तत्सहितमक्षि नेत्रं येषां ते तथा । भगवद्दर्शनेन हृष्टा इत्यर्थः ॥ १ ॥
 
अथ देवानां प्रवृत्तिमाह ·
 
-
 
घृतभासुरमालेयं भसितेन भवं निरीक्ष्य सुरमालेयम् ।
अधिकं सन्तुष्टावस्थितं पुरः कृत्तिवाससं तुष्टाव ॥ २ ॥
 
धृतेति । इयं शिवस्तुतिंकरी, सुरमाला देवसमूह, पुरः पुरस्ता
दवस्थितं मवं शिवं, निरीक्ष्य दृष्ट्वा, अधिकमत्यर्थ, सन्तुष्टा प्रीता सती,
तुष्टाव स्तुतिमकरोत् । भवं विशिनष्टि - घृतेति । भसितेन भस्मना,
-
घृतभासुर मालेयं धृतं भासुरं भासनशीलं मालेयं चन्दनं येन स तथा । मालयेनेव
भसितेनालिप्तगात्रमित्यर्थः । तथा कृत्तिवाससं कृत्तिर्गजस्य व्याघ्रस्य वा
चर्म सा वासो वसनं यस्य स तथा ॥ २ ॥
 
अथ चतुर्भिः श्लोकैः स्तुतिप्रकारमाह -
 
८९
 
जय वरदेशानन्त ! स्थाणो! बिभ्राण ! भुवनदेशानन्तः ।
वेष्टित! रोमावल्याह्वयमधुपत्रातमन्थरोमावल्या ॥ ३ ॥
 
"
 
जयेति । हे वरद ! भक्तानामभीष्टप्रद !, ईश! जगत्सर्गादिप्रवृत्तौ
शक्तियुक्त !, अनन्त ! देशतः कालतो वस्तुतश्चान्तरहित !, स्थाणो ! जन्मादि-
विकाराभावात् स्थिरस्वरूप! अन्त: स्वान्तर्भागे भुवनदेशान् चतुर्दशभुव-
नानीत्यर्थः । बिभ्राण! दधान ! हे रोमावल्याह्वय मधुपत्रात मन्थरोमावल्या
वेष्टित ! रोमावली रोमराजि: इत्याइयो नाम यस्य तेन मधुपत्रातेन
!
मन्थस्या मनोहारिण्या उमा पार्वत्येव बली लता तया बेटिस आश्लिष्ट
इत्यर्थः । जय सर्वोत्कृष्टतया वर्तस्व । अत्र रोमावलीरूपेण तिरोहितो मधुपत्रात
एवायमिति प्रतीतेः
 
"प्रकृतं यन्निषिध्यान्यत् साध्यते सा त्वपहनुतिः । "
 
-