This page has not been fully proofread.

८८
 
सव्याख्ये त्रिपुरदहने
 
एवं स्तुतिं विधायोत्तराश्वासस्य बीजमुपक्षिपन्तः स्वाभिमतमर्थ प्रार्थयन्ते-
अधुनापि तथैव समस्तगुरो ! परिरक्ष जगत् समुदस्य पुरः ।
इति देवगणस्य तदा स्तुवतः प्रभुराविरभूत् समुदस्य पुरः ॥ ५९ ॥
 
-
 
अधुनापीति । हे समस्तगुरो ! जगत्स्वामिन् । यथैव पुरान्धकादिभ्यो
जगद्रक्षितवान् तथैव अधुनापि इदानीमपि, पुरः पुराणि, समुदस्य संहृत्य,
जगत् परिरक्ष पाहि । देवानां प्रयलः फलवानासीदित्याइ - इतीति । तदा
तस्मिन् काले, इति उक्तप्रकारेण, स्तुवतः स्तुतिं कुर्वतोऽस्य स्वाभिमतं
प्रार्थयतो, देवगणस्य, पुरोऽग्रभागे, प्रभुर्महेश्वरः, आघिरभूत् प्रत्यक्षता-
मगमत् । कीदृशः । समुत् । नयनविका सहासादिप्रीत्यनुभावयुक्त इत्यर्थः ॥ ५९ ॥
 
इति श्रीवैष्णव कुलालङ्कृतेः कविहृदयसार्वभौमस्य करुणा करनाम्नो
विद्वत्प्रवरस्य भागिनेयेन पङ्कजाक्षनाम्ना विरचितायां
त्रिपुरदहनव्याख्यायां हृदयग्राहिण्यां
॥ द्वितीय आश्वासः ॥
 
अथ तृतीय आश्वासः ।
 
अथोपक्षिप्तं पुरसमुद्सनं प्रपञ्चयितुमुपक्रमते—
 
अथ परमं गलपन्ते पुमांसमासोनम खिलमङ्गल्यं ते ।
सविकासाक्षा देवप्रवरा ददृशुः क्षणेन साक्षादेव ॥ १ ॥
 
·
 
अथेति । अथ प्रभोराविर्भावानन्तरं, ते शिवस्तुतिकर्तारो देव (प्रवरा :)
क्षणेन झटिति, परमं सर्वोत्कृष्टं, पुमांसं परमेश्वरं, साक्षादेव प्रत्यक्षमेव,
दहशुः दृष्टवन्तः । कीदृशम् । गल्यन्ते गळी वृषभः तस्यान्ते उपरिप्रदेश,

आसीनं स्थितम् । कुतोऽस्य परमपुरुषत्वमित्यत्राह – अखिलमङ्गल्यमिति ।
अखिलस्य जगतो मङ्गल्यं मङ्गलस्य निर्मित्तं सत्तास्फूर्तिप्रदत्वात् ।
 
-