This page has not been fully proofread.

द्वितीय आश्वासः ।
 
-
 
'अपि चाम्बरवासा य' इत्यादिनोक्तं परिहरन्तः स्तुवन्ति -
 
८७
 
त्वामवदातारम्भो रुद्र ! ध्यात्वा फलस्य दातारं भोः ।
स्वं कर्मानन्तनुते! जनोऽयमाम्नायगम्यमानं तनुते ॥ ५७ ॥
 
त्वामिति । भो रुद्र ! रुद्र इति श्रीनामशालिन् !, हे अनन्वनुते !
अनन्ना निरवसाना नुतिः स्तुतिर्यस्य तस्य संबोधन तथा । अम्बर-
वासत्वश्मशानवासित्वादिकं तु तव स्तुतिरेवेति भावः । अयं चतुर्वणीश्रम-
लक्षणो जनः, फलस्य कर्मफलस्य, दातारं त्वां ध्यात्वा स्वमात्मीयं
स्वस्ववर्णाश्रमविहितं कर्म तनुते । कर्मणः फलमीश्वरो दास्यतीति श्रेय-
स्कामो जनः कर्म करोतीत्यर्थः । कीदृशो जन इत्यत्राह — अवदातारम्भ
इति । अवदातः कल्पसूत्रायुक्त विध्यनुल्लङ्/धित्वत् शुद्ध आरम्भोऽनुष्ठानं
यस्य स तथा । कीदृशं कर्मेत्यत्राहु - आम्नायगम्यमानमिति । आम्नायो
वेदः तेन गम्यमानं वेद्यमानं वेदैकप्रमाणमित्यर्थः । 'श्रेयस्कामः परमेश्वर-
सेवां कुर्वीते'ति श्रुत्या विहितामीश्वरसेवां कुर्वन् जनः कथं श्रेयोनिरासकः
स्यादिति भावः । ॥ ५७ ॥
 
एवं नास्तिका क्षिप्तमास्तिकपक्षं समाधाय स्तुत्वा स्वाभिमतमर्थं
प्रार्थयितुका मास्तदनुगुणमपदानं प्रकटयन्तः स्तुवन्ति -
 
त्रिजगत्समरक्षोऽदः पुरान्धकादपि च दत्तसमरक्षोदः ।
त्वं पुनरक्षामतनोर्नाथ ! महाभैरवाच्च रक्षामतनोः ॥५८ ॥
 
त्रिजगदिति । हे नाथ ! स्वामिन् ! त्वं पुरा अन्धकाद् अन्धक-
नाम्नोऽसुराद् । अपि चादः इदं त्रिजगत्, समरक्षः सम्यग् रक्षितवान् । अपि
चेत्यनेन वक्ष्यमाणोऽर्थः समुच्चीयते । कीदृशः । दत्तसमरक्षोदः दत्तः समरे युद्धे
क्षोदश्चूर्णीभावो येन स तथा । पुनः पश्चाद् । अक्षामतनोः बृहत्कायात्,
(महाभैरवाद्) महाभैरवनामोऽसुराच्च, रक्षां त्राणम्, अवनं कृतवान् ।
त्रिजगत इति शेषः ॥ ५८ ॥