This page has not been fully proofread.

सव्याख्ये त्रिपुरदइने
 
सावयवत्वादिति । हे! भव! भव इति श्रीनामशालिन् ! । भवत्यस्मा-
द्विश्वमिति भवः । हे देव! देवयति द्योतयति, निखिलं जगत् प्रकाशयतीति
देवः । विश्वकर्तृत्वाद् विश्वावभासकत्वाच्च त्वत्सत्तां को वा निराकुर्यादिति भावः।
सावयवत्वादेव अवयवसहितत्वादेव, जगतः भत्रे उत्पत्तौ । कार्यत्व इत्यर्थः ।
प्रमिते सम्यगवगते, को वादी त्वा त्वां, स्रष्टारं विश्वकर्तारं, न वदिता ।
सर्वोऽपि वादी बदितैत्र । वदितेति तृन्नन्तं रूपम् । नान्तत्वेऽपि हि "न लोक" (पा०
सू० २-३-६९) इत्यादिना कर्मणि षष्ठी न स्यात् । ननु केचिदीश्वरस्य जगत्कर्तृतां
निरस्यन्ति । तत्कुतो हेतोरित्यत्र हुः - को न्विति । अदीनः बुद्धिहीनो दीनः
तस्मादन्योऽद्दीनः बुद्धिमान् तादृशः को नु निरसिता निराकर्ता, वा ।
बुद्धिमांस्त्वां न निराकरोनीत्यर्थः । अतो बुद्धिशून्यत्वमेव त्वन्निरसने हेतुः
इति भावः " विमतं जगत् कार्य भवति । सावयवत्वात् । यद्यत्
सावयवं तत्तत्कार्यं दृष्टम् । यथा घटः । सावयवं चेदम् । तस्मात् कार्य-
मित्यनुमानात् कार्यत्वस्य यदुक्तमसिद्धत्वं तन्न सङ्गच्छत इत्यर्थः । अतः
कार्यत्वेन जगत्कर्तुरनुमेयत्वादनुमानमपीश्वरसत्तायां प्रमाणमित्याशयः॥ ५५ ॥
 
.9
 
'तस्मान्मानसमूहे' इत्यादिना यदाक्षिप्तं तत्परिहरन्तः स्तुवन्ति --
कतरनामानन्त! त्रिणयन ! शंसन्ति दुर्जना मानन्तत् ।
हतसुरसंसत्तान्ते! न साधयेद्यत् समञ्जसं सत्तां ते ॥ ५६ ॥
 
कतरदिति । हे अनन्त ! देशतः कालतो वस्तुतश्यावसानरहित !
हे त्रिणयन ! तेजस्त्रात्मकनेत्र त्रितययुक्त ! । आभ्यां सगुण निर्गुण भेदेनेश्वरस्या-
वस्थितत्वमुक्तम् । हतसुरसंसचान्ते! इता सुरसंसद: त्रिदशसमूहस्य तान्तिः
परपरिभवलक्षणग्लानिर्येन तस्य संबोधनम् तथा । इदानीमपि भवतैवं भाव्य-
मित्यभिप्रायः । यत् कर्तृभूतं, ते तब ईश्वरस्य, सत्तां सद्भावं, समज्जसं सम्यक्,
न साधयेदिति दुर्जनाइशंसन्ति कथयन्ति, तन्मानं प्रमाणं, कतरन्नाम ।
नामशब्दः प्रसिद्धौ । अष्टसु प्रमाणेषु मध्ये किन्नाम । न किमपि प्रसिद्ध
मेतत् । सकलमपि प्रमाणम् ईश्वरसत्तास धकमेवेत्यर्थः ॥ ५६ ॥