2024-01-01 06:20:13 by ambuda-bot
This page has not been fully proofread.
द्वितीय आश्वासः ।
अयोगिनो हि अयोग्यत्वादेव त्वां न पश्यन्ति, न तु नास्तित्वादित्यर्थः ।
एवञ्च योगिप्रत्यक्षविषयत्वाद् 'न पतति तं प्रत्यक्षम्' इत्यादिना यदुक्तं
तदयुक्तं, स्वानुभूतिरेकैव ईश्वरसद्भावे प्रमाणमिति भावः । उक्तं च
मर्तृहरिणा
-
"दिकालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये ।
स्वानुभूत्येकमानाय नमः शान्ताय तेजसे ॥"
८५
इति ॥ ५३ ॥
'या वागेकर्तारमि'त्यादिना कृतमाक्षेपं परिहरन्तः स्तुवन्ति-
बुद्धिरजाबाधातः स्वतः पचत्यादिशब्दजा वा धातः ! ।
अखिल। वै तथ्य। यत्त्रय्युत्था त्वयि तु केन वैतध्याय ॥ ५४ ॥
बुद्धिरिति । वाशब्दोऽप्यर्थः । वैशब्दोऽवधारण । हे अज!जन्मरहित!,
हे धातः!विश्वकर्तः! । आभ्यामीश्वरस्य कारणरहितत्वाद् विश्वस्य ईश्वर-
कारणत्वाच्च त्वमेव नः शरणमिति ध्वन्यते । पचत्यादिशब्दजा वा देवदत्तः
पचति, यज्ञदत्तः पठतीत्यादेलौंकिकवाक्याज्जातापि, अखिला बुद्धिर्ज्ञानं, स्वतो
निसर्गतः, अबाधा नायं पचतीत्यादिकज्ञानानुदयाद् बाधरहिता, अत एव
तथ्या परमार्थभूता, यत् यस्माद् अतः एतस्माद्धेतोः त्वयि त्वद्विषये, त्रय्युत्था
वेदवाक्योत्पन्ना, बुद्धिस्तु तुशब्दो विशेषद्योतकः । केन हेतुना वैतथ्याय
मिथ्यात्वाय । भवेदिति शेषः । नात्र किञ्चिदपि कारणमित्यर्थः । यतः
पाकादिक्रियादावपि लौकिकवाक्यानामपि प्रामाण्यं ततः केनाप्यनपह्नवनीये
त्वयि वैदिकवाक्यानां प्रामाण्य भवत्येवेत्यर्थः । अतः श्रुततथ्यसमर्थनं
स्तुतिपरतया योजनं च नोपपन्न मिति भावः । ततस्तस्मादीश्वर सद्भावे आगमः
च
प्रमाणं भवतीत्याशयः ॥ ५४ ॥
"
-
यत्पुनः 'यदि वो माने नमती'त्यादिना कार्यत्वस्य हेतोरसिद्धतया
हेत्वाभासत्वमुद्भावितं तन्त्रि स्यन्तः स्तुवन्ति -
सावयवत्वादेव प्रमिते जगतो भवे भव ! त्वा देव ! ।
वदिता वादी न स्रष्टारं को नु निरसिता वादीनः ॥ ५५ ॥