This page has not been fully proofread.

सव्याख्ये त्रिपुरदहने
 
य इति । हे दन्तित्वग्वसन ! दन्ती गजः तस्य त्वक् चर्म वसनं
वासो यस्य तस्य सम्बोधनम् तथा । हे हर ! हरश्रीनामशालिन् । भक्तानां पापं
हरतीति हरः । अत्र सम्बोधनद्वयेन गजासुरं निहत्य तच्चर्मवासिनस्तस्य जगत्कण्टको-
द्धारणपरत्वं च भक्तानां नः दुरवस्थामूलं पापं संहरणीयमिति च ध्वन्यते । ये नराः
चार्वाकादय:, भवन्तं निन्दन्ति 'धर्मा हिताय नेशस्येमे' इत्यादिना दुप्यन्ति एते
निरये नरके, निपतन्ति । ननुरवधारणे । निपतन्त्येवेत्यर्थः । नरान् विशिषन्ति -
अपधिय इति । बुद्धिशून्याः । तेषां बुद्धिशून्यत्वमेव भवन्निन्दाया हेतुः । बुद्धिमन्तस्तु
न निन्दन्तीति भावः । भगवन्तं विशिंषन्ति - अखिलयोनिमिति । अखिलस्य
योनिं कारणम् । अतो वन्दनीयत्वमेव न निन्दनीयत्वमित्यर्थः । निरयं विशिषन्ति -
उत्तारानन्वेत इति । उत्तार उत्तरणं तेनानन्वेते (सर) हिते । भवन्निन्दकाः कदाचिदपि
नरकान्नोत्तरिष्यन्तीत्यर्थः ॥ ५२ ॥
 
1
 
८४
 
'न पतति तं प्रत्यक्षम्' इत्यादिना यत्प्रत्यक्षा विषयत्वमुक्तं तन्निरस्यन्तः स्तुवन्ति -
 
अनितरसादृश्यत्वं दधतोऽस्य हि भवति तेऽञ्जसा दृश्यत्वम् ।
शान्तो यो योग्यास्ते ये तु न पश्यन्ति हतधियोऽयोग्यास्ते ॥ ५३ ॥
अनितरेति । यः पुरुषः, शान्तः विषयेभ्य उपरतमनाः,
अत एव योगी योगश्चित्त-
वृत्तिनिरोधः तद्वान्, आस्ते तिष्ठति । अस्य पुरुषस्य, ते तव, अञ्जसा तिरोधानमन्तरेण
दृश्यत्वं दर्शनयोग्यत्वं, भवति । हिशब्दः प्रसिद्धौ । द्विविधं हि प्रत्यक्षम् । यो गिप्रत्यक्ष-
मयोगिप्रत्यक्षं च । तत्रेश्वरो योगिप्रत्यक्षगम्य इत्यर्थः । योगिनोऽपि किमिति
चक्षुर्भ्यां न पश्यन्तीत्याशङ्कायां ते इति षष्ठयन्तनिर्दिष्टम् ईश्वरं विशिंषन्ति - अनित-
रेति । खव्यतिरिक्ता इतरेऽस्मदादयो देहिनः तैस्सादृश्य मितरसादृश्यम् अविद्यमानमितर-
सादृश्यं यस्यास्मदादिवद्देहग्रहणायोगात् तस्य भावोऽनितरसादृश्यत्वं ततः बिभ्राणस्य ।
चिन्मात्रविग्रहः कथं चक्षुर्भ्यां गृह्यत इति भावः । तर्ह्ययो,गिनः किमिति न
पश्यन्तीत्यत्राहुः – ये त्विति। तुरवधारणे भिन्नक्रमश्च । ये ज(नतानाः) न पश्यन्ति ।
त्वामिति शेषः । ते अयोग्यास्तु अनर्हा एव । तत्र हेतुः इतषिय इति । नष्टबुद्धयः ।