This page has not been fully proofread.

श्री वासुदेवप्रणीतं
 
त्रिपुरदहनं
 
( यमक काव्यम्)
 
(ङ्कजाक्ष कृतया हृदयग्राहिण्याख्यया व्याख्ययोपेतम् ।
 
बपुर तिगौरच्छायं जयति विभोरभिदधाति गौरच्छा यम् ।
विपकटुका येनाहिश्रेणी भूषणमिव स्वायेऽनाहि ॥ १ ॥
 
शब्दार्थात्मकमाभाति विश्वं यत्र तदस्तु वः ।
इष्टदायि परं ब्रह्म भूषयद्यादव कुलम् ॥
 
काव्यारम्भे कविशिष्टाचार मनुसरन्निष्टदेवता स्वरूपानुस्मरणलक्षणं मङ्गल-
माचरति - वपुरित्यादिना । त्रिभोः जगतां पत्युः, वपुः मूर्तिः, धर्मिणः प्रका-
शस्य धर्मरूपा विमर्शशक्तिरित्यर्थः । जयति सर्वोत्कृष्टं वर्तते ।
 
" विभुस्तु ना कुबेरेऽर्के त्रि तु सर्वगनित्ययोः ।
स्वामिनि"
 
इति केशवः ।
 
ननु
 
सगुणनिर्गुणभेदेन वपुषो द्वैविध्ये कस्योत्कर्षः परामृश्यत
इत्याशङ्कायां वपुर्विशिनष्टि - अतिगौरच्छायमिति । गौरी अत्यन्तारुणा
छाया कान्तिर्यस्य तत्तथोक्तम् ।
 
"गौरस्तु ना *विरिश्चेन्द्वोर्धववृक्षेऽसन द्रुमे ।
शुक्लपीतारुणगुणेष्वेतद्युक्तेषु तु त्रिषु ॥"
 
इति केशवः ।
 
* 'विरिञ्चे द्वे धववृक्षै' इति मुद्रितः पाठः