This page has not been fully proofread.

द्वितीय आश्वासः ।
 
अमृतमिति । मृतं मरणम् । 'नपुंसके भावे क्त: ' (पा० सू० ३-३-११४) इति क्तः ।
जन्मोपलक्षणमेतत् । जन्मबिनाशरहितमित्यर्थः । जन्मविनाशौ तु देहस्यैवेति भावः ।
तथोक्तं भागवते-
"नात्मा जजान न मरिष्यति नैधतेऽसौ
 
नक्षीयते वनविद्व्यभिचारिणां हि ।
सर्वत्र शश्वदनपाय्युपलब्धिमात्रं
 
प्राणो यथेन्द्रियबलेन विकल्पितं सत् । "
 
८३
 
इति ।
 
'विसर्गाद्याः श्मशानान्ता भावा देहस्य नात्मनः ।
 
इति च। नन्वीश्वरस्य जीवात्मना स्थितत्वे स्वगत भेदसंभवान्ना द्वैत सिद्धिरित्यत्राहुः परमिति ।
परं सर्वोपरिष्टात् स्थितं मायातत्कार्याणामप्युपरि वर्तमानम् । अत एवामलम् । मलशब्देन
मायाभिधीयते । तदुक्तं वासिष्ठे -
 
"क्कचिन्मलमिति प्रोक्तं कचिन्मायेति कल्पितम् ।
 
इति । मायासंबन्धरहितमित्यर्थः । अत एवाच्युतं अवयवविनाशात्मकक्षय-
रहितम् । अथास्य सात्त्विकं रूपमा हु: - सत्यं परमार्थभूतं सद्रूपमित्यर्थः । आनन्दं
सुखखरूपं, चिन्मयं बोधखरूपम्, अत एव परमं सर्वोत्कृष्टम् । सर्वस्यापि मूलकारणत्वा-
दीश्वरस्य प्रमाणगम्यत्वे प्रमेयत्वेन यज्जदत्वं प्रसज्येत तत्परिजिहीर्षुभिर्देवैः
'अतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि' इत्याद्यभियुक्तोक्तनीत्या वेदोऽप्यतन्निरसनेनैव
ईश्वरं प्रतिपादयतीति द्योतयितुमप्रमेयेति सम्बोधनमित्यवगन्तव्यम् । अनेन देहव्यतिरिक्त
एवात्मा स एव परमेश्वरः । श्रुतिरत्र प्रमाणमित्युक्तं भवति ॥ ५१ ॥
 
अथ 'तद्वचने शस्ये मे तिष्ठत धर्मा हिताय नेशस्येऽमे ।' इति यदुक्तं
तन्निरस्यन्तः स्तुवन्ति -
 
येऽखिलयोनिं दन्तित्वग्वसन ! भवन्तमपधियो निन्दन्ति ।
उत्तारानन्वेते निरये निपतन्ति हर ! नरा नन्वेते ॥ ५२ ॥