This page has not been fully proofread.

सव्याख्ये त्रिपुरदहने
 
काम्यमानानि अभिलप्यमाणानि फलानि देशान्तरकालान्तरदेहान्तरभोग्यानि
स्वर्गादीनि, प्रामोति लभते । 'का पुनरङ्गात्र मितिरि'त्यादिना यदाक्षिप्तं तत्परिहर्तुं
शम्भुं विशिषन्तिलोक इति । यश्शुभकर्मा ना लोके
 
८२
 
"
 
'तावत् प्रमोदते स्वर्गे यावत् पुण्यं समाप्यते ।
 
इत्यादिवचनैः वेदे वा त्रय्यां च स्तुतः प्रतिपादितः । पुरुषस्य देहान्तरग्रहणे
फलभोक्तृत्वे चागमः प्रमाणमिति भावः । लोके वेदे वा यः स्तुत इत्यनेनावृत्त्या
शम्भुरपि विशेषणीयः । अत्रेश्वरसत्तायामागमः प्रमाणमिति भावः । 'फलमपि
न भवेदिष्टमि'त्यादिना 'स्याद्यदि मोदनतोऽय' मित्यादिना च यदाक्षिप्तं तदप्यनेनैव
समाहितम् । अग्निष्टोमादेः श्राद्धादेश्च श्रुतिस्मृतिचोदितत्वात् ॥ ५० ॥
 
'श्राव्या मदवध्येय' मित्यादिना यदाक्षिप्तं तत्परिहरन्तः स्तुवन्ति -
 
अद्वैतं परममलं चिन्मय मानन्दमच्युतं परममलम् ।
सकलेशं सत्यमृतं वचनं त्वामप्रमेय शंसत्यमृतम् ॥ ५१ ॥
 
अद्वैतमिति । अप्रमेय! निखिलप्रमाणाविषय ! ऋतं वेदलक्षणं, वचनं त्वामलम्
अत्यर्थं, शंसति तात्पर्येण प्रतिपादयति । कीदृशं शंसतीत्याशङ्कायां विशिषन्ति-अद्वैत-
मिति । अद्वैतं द्वयोर्भावो द्विता द्वितै (व) द्वैतं तद्रहितम् । सजातीय विजातीयस्वगतभेदशून्य-
मित्यर्थः । ननु जीवानां पृथक्सत्त्वे कथमद्वैतत्वं इत्यत्राहुः सकलेशमिति । सकलस्य
भूतेन्द्रियान्तःकरणात्मकस्य विश्वस्येशं प्रवर्तयितारम् । ईश्वर एव चराचरेषु देहेषु
(तिष्ठति । उक्तं च ) श्रीभगवता-
"ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन ! तिष्ठति ।
भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥
 
इति । नन्वेवं चेद् जन्मविनाशवत्त्वादीश्वरस्य बिकारित्वप्रसङ्ग इत्यत्राहुः
 
50
 
-