This page has not been fully proofread.

1
 
द्वितीय आश्वासः ।
 
तपश्चर्या विवृणोति-
अकृत जपञ्चाक्षरतः त्रिदशसमूहोर्चनञ्च पञ्चाक्षरतः ।
अतनुत मनुविद्धोमं तेन ततोऽस्तावि दैवमनुविद्धोमम् ॥ ४९ ॥
 
८१
 
अकृतेति । त्रिदशसमूहो देवजनः पञ्चाक्षरतः पञ्चाक्षरमन्त्रस्य, जपं
यकृत, चकारेणानुक्तं तर्पणमपि । कीदृशः । मनुवित् मनुर्मन्त्रः मन्त्र-
मन्त्रार्थर्षिच्छन्दोदेवताविनियोगज्ञ इत्यर्थः । अक्षरतः अक्षेषु रुद्राक्षेषु रतः । रुद्राक्षमालया
क्लप्मजपसङ्ख्य इत्यर्थः । पञ्चाक्षरतः पञ्चाक्षरमन्त्रेण अर्चनं पूजाम् । चकारोऽकृतेत्य-
नुकर्षणार्थः । पञ्चाक्षरतो हो ममग्निकार्य चातनुत कृतवान् । पञ्चाक्षरत इत्यत्र जपविषये
पष्ठचन्तात्तसिः । अन्यत्र तृतीयान्तात् । ततो जपार्चनाद्यनन्तरम् । तेन त्रिदशसमूहेन ।
अनुविद्धोमं अनुविद्धा संबद्धा उभा पार्वती यस्य तत् तथाविधं दैवं श्रीपरमेश्वरः
अस्तावि ॥ ४९ ॥
 
अथ नवभिः श्लोकैः स्तुतिप्रकारमाह-
शुभकर्मा ना नियतः प्राप्नोति फलानि काम्यमानानि यतः ।
लोके वेदे वा यः स्तुतो नमस्तेऽस्तु शम्भवे देवाय ॥ ५० ॥
 
-
 
शुभकर्मेति । अत्र नास्तिकपक्षावलम्बिना हरिणा य आस्तिकपक्षाक्षेपः
कृतः तं समाददद्भिदेवैः स्तुतिः क्रियते इत्यवगन्तव्यम् । तत्रानेन 'यदि -
हैवायात्यन्तमि' त्यारभ्य ' युष्मदीयमक्षेपतती' त्यन्तेन 'क्रियते यत्तावदथे' त्यारभ्य
'कुतोऽतस्सभारतापाथेयमि' त्यन्तेन च ग्रन्थेन यदा क्षिप्तं तत्परिहरन्तः स्तुवन्ति -
तस्मै शंभवे ते तुभ्यं नमः नमस्क्रियास्तु भवतु । कीदृशाय । देवाय दीव्यति
द्योतते अहमस्मीति सर्वप्राणिनामप्यन्तः स्फुरतीति देवः । सर्वेषामप्यन्तरहमिति प्रकाश-
मानस्य किं प्रमाणान्तरान्वेषणमिति भावः । 'यदिहैवायात्यन्तमि' त्यादिना च'क्रियते
यत्ताबदथेत्यादिना' च यदाक्षिप्तं तत्परिहर्तुं शम्भुं बिशिषन्ति यतो यस्मात् शम्भोः,
 
1
 
शुभकर्मा चोदितकर्मानुष्ठाता, ना पुरुषः, नियतः फलभोगे व्यभिचाररहितस्सन्,