This page has not been fully proofread.

सव्याख्ये त्रिपुरदहने
 
तदुपमा तत्सदृशी चेष्ट। प्रवृत्तिर्यस्य स तथा । तत्कालविशेषणमेतत् । पूर्व सदाचारपर:
(त:इ) दानीं दुराचारपरो जातः । अहो विचित्रा दैवगतिरिति भावः । अत एव स्थाणोः
शिवस्य, प्रसादलोपं प्रीतिविनाशम् अचेष्ट अकरोदपि च । 'चिञ् चयने' इति
धातोः लुङ् । असुराणां दुराचारपरत्वदर्शनात् शिवोऽपि रुष्टोऽभूदित्यर्थः ॥ ४७ ॥
 
अथ देवानां प्रवृत्तिमाह -
 
अथ विजयाशां भव्या दधतो देवा दिदृक्षया शाम्भव्या ।
तस्थुस्तापस्यां ते धुरि गिरिभर्तु रुप्रतापस्यान्ते ॥ ४८ ॥
 

 
अथेति । अथ सुराणामसन्मार्गस्थापनानन्तरं, ते त्रिपुरपराजिता देवाः,
शाम्भव्या शम्भुसंबन्धिन्या, दिदृक्षया द्रष्टुमिच्छया हेतुना, गिरिभर्तुः
पर्वतश्रेष्ठस्य हिमवतोऽन्तेऽवसाने अधित्यकायामित्यर्थः । तापस्यां तपस्सम्ब-
निधन्यां, धुरि व्यापारे, तस्थुः स्थितवन्तः । किं फलमुद्दिश्य तपश्चकुरित्याशङ्कां
परिजिहीर्षुः देवान् विशिनष्टि–विजयाशामिति । विजयेऽसुराभिभवे आशामिच्छां दधतः
बिभ्राणाः । तथा भव्याः कल्याणगुणशालिनः । एषामभिलषितसिद्धिर्भविष्यत्येवेति भावः ।
 
"भव्यः पुनर्ना पादपान्तरे ।
 
कमरङ्गाह्वये क्ली तु फले तस्य धने तथा ।
कल्याणाख्यगुणे च स्याद् मेद्यलिङ्गं च तद्वति ॥
योग्ये भवितरि प्राप्ये भवितव्ये तु तन्नपि । "
 
इति केशवः । गिरिभर्तारं विशिनष्टि - गुरुप्रतापस्येति । गुरुमहान् प्रतापो वैशिष्ठ्यं
यस्य स तथा। अत्राचेतने पर्वते दूरादेवारीणां भयजनकत्वलक्षणस्य प्रतापस्यासंभवाद्
मुख्यार्थबाघे विशिष्टताविशेषेण प्रतापेन विशिष्टतासामान्य लक्ष्यते । सामान्यविशेषभावः
सम्बन्धः । कार्यकारित्वनैयत्यप्रतीतिः प्रयोजनम् । वैशिष्ठ्यं चास्य क्षेत्रान्तरेभ्यः पावनत्वा-
द्यतिशयात्। एतच्च देवानां तत्रावस्थाने हेतुः ॥ ४८ ॥