This page has not been fully proofread.

द्वितीय आश्वसः ।
 
हृत्स्थविरोधत्वं च ऊःकारित्वं च श्वना अपि विशेषणं भवति ।
 
' पतिपत्न्यो: प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोः । '
 
इत्यमरः ॥ ४५ ॥
 
युगमवजानानं दम्पत्योवृत्तीजहौ निजा नानन्दम् ।
 
तद् व्यचरज्जारहितं परदारहितञ्च वीक्ष्य लज्जारहितम् ॥ ४६ ॥
 
युगमिति । दम्पत्योः जायापत्योः, युगं युगळं, निजा भात्मीया, वृत्ती :
स्वपत्येकनिष्ठत्वस्वमार्यैकनिष्ठत्वादिलक्षणानाचारान्, जहौ त्यक्तवत् । आनन्दं न जहौ ।
स्वैराचारजनितं सुखमङ्गीकृतवदित्यर्थः । कीदृशम् । अवजानानं भार्या भर्तॄन् प्रति भर्तारो
भार्या : प्रति परस्परमवज्ञां कुर्वाणम् । यस्मान्निजवृत्तेनं स्वैराचारात् सुख-
स्योपादानं चाङ्गीकृतं तत् तस्मात्, जारहितं जारेभ्यो हितमिष्टं वस्तु, परदारहितं च
परदारेभ्यो हितं च, वीक्ष्य विचिन्त्य, लज्जारहितं लज्जाकार्य करणादुत्पन्नया दिया
रहितं शून्यं यथा भवति तथा व्यचरत् आचरति स्म । स्त्रियो जारहितं बीक्ष्म
व्यचरन् । पुरुषाः परदारहितं च वीक्ष्य व्यचरन्नित्यर्थः ॥ ४६ ॥
 
असुराणामधर्मव्यापारमुपसंहरति -
 
इति हरिनारदमततः स जनौधो धर्मवर्त्म नार दमततः ।
चण्डालोपमचेष्टः स्थाणोरपि च प्रसादलोपमचेष्ट ॥ ४७ ॥
 
इतीति । स जनौधः असुरलोकः, हरिनारदमततः हरिनारदयोर्मतात् सिद्धान्ता-
द्धेतो: हरिमतात् असुरजन: नारदमतात् तत्स्त्रीजनश्च इति उक्तप्रकारेण,
धर्मवर्त्म धर्मः श्रुतिस्मृतिचोदितं कर्म तत्प्रधानं वर्त्म मार्ग, न आर न
प्राप्तवान् । अधर्म एव प्रावर्तिष्टेत्यर्थः । कीदृशः । दमततः दम इन्द्रियजयः तेन
ततः व्याप्तः । दमोपलक्षितेन सदाचारेण व्याप्त इत्यर्थः । भूतकालविशेषणमेतत् ।
'दम इन्द्रियनिग्रहे । दण्डे गृहे च ' इति केशवः । चण्डालोपमचेष्ट: चण्डाल: श्वपत्र:
 
47