This page has not been fully proofread.

सव्याख्ये त्रिपुरदहने
 
इतीति । सः स्त्रीलोकः असुरस्त्रीजनः, परमर्षेः नारदस्य, इति उक्तप्रकारेण बहुधा
अनेकप्रकारेणावस्थितया, वाचा आशु कालबिलम्बनं विना, अधिकं बहु, पापं परपुरुष
संसर्गादिलक्षणं निषिद्धाचरणं, चिकाय सञ्चितवान् । अकरोदित्यर्थः । स्त्रीलोकं
विशिनष्टि – य इति । यः स्त्रीलोकः, नारदवचनात् पूर्व परं श्रुतिस्मृतिमूलत्वाद्
उत्कृष्टम् आचारं पातिव्रत्यादिलक्षणम् अरम् अत्यर्थ, दधौ । दैवे प्रतिकूले किं
नामासंभावनीयमिति भावः । नारदवचनात् परम् अशुचिकाय: अशुचिः परपुरुष-
संसर्गादशुद्ध: कायो देहो यस्य स तथा । अत एव गतनहिमा अपगत-
माहात्म्यः ॥ ४४ ॥
 
"
 
अथ द्वाभ्यां श्लोकाभ्यां पापाचरणं विवृणोति -
 
७८
 
त्यक्तसुहृत् स्थविरोऽधःकृतः स्नुपाभिर्निगूढहृत्स्थविरोधः ।
उज्झितवानाश्वश्रूःकारी श्वशुरः शुचोऽश्नुवाना श्वश्रूः ॥ ४५ ॥
 
"
 
त्यक्तेति । श्वशुरः भर्तुः पिता, आशु नारदवचन श्रवणसमनन्तरमेव, अश्रु
मयनजलम् उज्झितवान् मुक्तवान्, दुःखितोऽभूदित्यर्थः । कीदृशः । ऊःकारी
ऊ:कारखान् । अयमपि दुःखानुभावः । " ऊर्दुः खभावने कोपे " इति भट्टः ।
'तत्र हेतु:
प्रार्थिताभिः, अधःकृतः ।
 
स्नुपाभिः पुत्रभार्याभिः अत्यर्थं
धिकृत इति यावत् । तत्र हेतु: - स्थविर वृद्ध इति । त्यक्तसुहृत्
त्यक्ताः सुहृदः स्नुषादिरतिर्न कर्तव्या खदाररतिरेव कर्तव्या इत्यादि
हितमुपदिशन्तो जना: येन स तथा । भवितव्यताक्रान्ते मनसि शतकृत्वो-
ऽभिहितमपि हितबचनं नावगाहत इति भावः । निगूढहृत्स्थविरोधः निगूढः
स्नुषाणामविधेयत्वात् स्वस्य तत्प्रतीकारासामर्थ्याच्च आच्छादितो हृत्स्थ: हृदयस्थो
विरोध: द्वेष: येन स तथा । अपिशब्दोऽध्याहर्तव्यः । श्वश्रूरपि भतृमातापि,
शुचः दुःखस्य अश्नुवाना प्राप्नुवती । अभूदिति शेषः । अत्रापि · रत्यर्थ प्रार्थितैः
पुत्रैः स्थविरेयमित्यषः कृतेति हेतुरतिदेष्टव्यः । शब्दतस्त्यत्तसुहृत्त्वं चार्थतो निगूढ-