2024-01-01 06:20:11 by ambuda-bot
This page has not been fully proofread.
द्वितीय आश्वासः ।
आह व्यक्तं भाषते । दरिद्रा एव स्वेषामशनार्थ दानस्य धर्मरूपतां उद्घोषयन्ति न तु तत्त्व-
बिद इत्यर्थः । या स्त्री बालपतिः युवभर्तृका, सरसा स्वपतौ रसेन रागेण सह
वर्तमाना च, असौ पातिव्रत्यमपि परम् आलपति । परमित्यनुषज्यते । स्वभर्तर्येव
प्रणयवती स्त्री स्त्रीणां पातिव्रत्यमेव परो धर्म इति ब्रूत इत्यर्थः । तस्मात् स्वार्थपरत्वेन
दरिद्रादिवचनस्य न प्रामाण्यमिति भावः ॥ ४२ ॥
एवं पातिव्रत्यादी नामकर्तव्यतामुपपाद्य कर्तव्यमर्थमुपदिशति -
७७
सन्मा गच्छत मोहं श्रद्धेयोऽस्म्यद्य सम्यगच्छत मोऽहम् ।
प्राणसमा जारा वः सेव्या निन्द्योऽर्थिनां समाजारावः ॥ ४३ ॥
तदिति । यस्मात् पातित्रत्यादीनामननुष्ठेयत्वं तत् तस्माद्, अद्य इदानीम् इतः परस्मिन्
कालेऽपि, मोहं अकर्तव्ये कर्तव्यबुद्धिलक्षणं भ्रमं, मा गच्छत प्राद्भुत मा इत्ययं निरनुबन्धको
निपातः । सानुबन्धकत्वे 'माङि लुङ्' (पा०सू० ३-३-१७५) इति लुङा भवितव्यम् । तर्हि
किमस्माभिः कर्तव्यं तदुपदिश्यता मित्यत्राह-प्राणसमा इति । प्राणसमा अत्यन्तवल्लभाः, जारा
उपपतयः, वः युष्माकं, सेव्या उपभोग्याः, न तु स्वभर्तारः । पातिव्रत्यादिधर्माणां कर्तव्यत्वं न
कतिपये कथयन्ति अपितु बहव एव, ते सर्वेऽपि किं निराकरणीया इत्यत्राह - निन्द्य
इति । अर्थिनां स्वभर्तृभोगान्ना (ति? दि) काङ्क्षिणां जनानां, यः समाजः समूहः तस्य आरावः
'स्त्रीणां पातिव्रत्यमेव धर्मः' 'दानमेव परो धर्मः' इत्यादिरूपः शब्दो, निन्द्यः गई: ।
अनुपादेय इति यावत् । ननु तवापि रागादिदूषितत्वं चेत् कथं विश्वास्यत्वमित्यत्राह -
श्रद्धेय इति । अहं सम्यक् सुठु, अच्छतमः अतिशयेनाच्छः । शुद्धान्तःकरण
इत्यर्थः । अत एव श्रद्धेयः विश्वास्यः, अस्मि । न मदुक्तौ किञ्चिदप्रामाण्यमाशङ्कनीयमि-
त्यर्थः ॥ ४३ ॥
अथासुरस्त्रियो नारदवचनादसन्मार्गस्थिता अभूवन्नित्याह-
इति बहुधा वाचारं परमपर्यः परं दधावाचारम् ।
गत महिमाशुचिकायः स्त्रीलोकः पापमधिकमाशु चिकाय ॥ ४४ ॥
45
-