This page has not been fully proofread.

धर्मनिरासप्रकारं दर्शयति
 
सव्याख्ये त्रिपुरदहने
 
अयि ललिता नार्यो हे भवतीभिर्धीविरं बतानार्यो ।
व्रजत निकामनुतेन स्वेनैव पथा सुखाय का मनुते न ॥ ४१ ॥
 
अयीति। अयीति संबोधनद्योतको निपातः । ललिताः सुकुमार्य: हे नार्यः स्त्रियः
भवती भिश्चिरं बहुकालं अनार्या कुत्सिता धी: पातिव्रत्यादिको धर्मोऽनुष्ठेय इति बुद्धिः ऊहे
ऊढा । बतेति सुकुमारीभिर्भवतीभिः सुख... तावान् कालः वृथा नीत इत्याश्चर्यमित्यर्थः । यद्वा
खेदे बतशब्दः। अतिसुकुमारीणां ब... मासे धर्मधिया एतावान्...इति मे महान् खेदो जा-
यते इत्यर्थः । अलमतिक्रान्तानुशोचनेन इतः परं किंकर्तव्यमित्यत आह व्रजतेति । स्वेनैत्र
...तः प्रवृत्तेन नतु श्रुतिस्मृतिविधिपरतन्त्रेण पथा मार्गेण व्रजत प्रवर्तध्वमित्यर्थः । पन्थानं
विशिनष्टि – निकामनुतेनेति । य... तेन युक्तिचिन्ताया मिदमेव कर्तव्यमिति भावः ।
नचास्माकं सुखापेक्षा इति न वाच्यमित्य... ति सुखाय परमप्रयो... खं सर्वस्यापि तदर्थ-
त्वात् तस्यानन्यार्थत्वाच्च तथाविधं सुखमनुभोक्तुं का स्त्री न मनुते कल्पयति । नेच्छतीति
यावत् । न कापि । सर्वापि स्त्री सुखमभिलपत्येवेत्यर्थः । 'कियार्थोपपद-' (पा० सू०२-३-१४)
इत्यादिना चतुर्थी । सुखानीति वा पाठः । सुखेच्छायाः स्त्रीपुंससाधारण्येऽपि स्त्रियो विशिष्य
सुखाभिलाषिण्यो भवन्तीति द्योतयितुं स्त्रीलिङ्गतया निर्देशः । यथाहु: – "सुखाभिलाषी
स्त्रीभाव" इति ॥ ४१ ॥
 
ननु दानपातित्रत्यादिलक्षणको धर्मोऽनुष्ठेय इति हि कथ्यते । तत्कथं
... तैवमुच्यते इत्याशङ्क्य एषा नाभियुक्तोक्तिरित्याह
 
-
 
दानं परमाहारं दरिद्रलोको विचिन्त्य परमाहारम् ।
 
या सरसा बालपतिः स्त्री पातिव्रत्यमप्यसावालपति ॥ ४२ ॥
 
दानमिति । दरिद्रलोकः दरिद्राणां निःस्वानां लोकः समूह: परमाहारं उत्कृष्टमशनं
विचिन्त्य निरूप्य (दानं) अन्नहिरण्यादिवितरणम् अरम् अत्यर्थ परं श्रेयस्साधनेत्कृष्टं
 
44